पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६२
अथर्वसंहिताभाष्ये

माणात् प्राणनव्यापाद् अनन्तरम् अपानतः अपाननव्यापारें अस्य प्राणिजातस्य शरीरमध्ये मुख्यमाणात्मना रोचना रोचमाना सूर्य अभ अन्तः मध्ये चरति वर्तते । महिषः । महन्मैतत् । महान अ धिभूतं वर्तमानः स्वः स्वगपलक्षितम् उपरितनं समस्तं लोकं व्यख्यत् वि चष्टे' प्रकाशयति ।, ॐ चष्टिः पश्यतिकर्मा । छन्दसो लुङ् । अ स्यतिवक्ति'” इति श्लेः अङ् आदेशः ५ ॥

नवमी ॥

त्रिंशद् धाम वि राजति वाक् पैतद् अंशिश्रियत् ।
प्रतुि वस्तोरहूनृभिः ॥ ३ ॥
त्रिंशत् । धार्म । वि । राजति । वाक् । पतङ्गः। अशिश्रियत्
मतेि । वस्तः। अहः । युऽभिः ॥ ३ ॥

वस्तोः वासरस्य अहोरात्रस्य अवयवभूताने त्रिंशन्मुहूर्तात्मकानि धा- म धामानि स्थानानि । उँहर्शब्दः अवधारणे । तस्यैव सूर्यस्य द्युभिः दीप्तिभिः प्रति वि राजति विराजन्ते प्रतिक्षणं विशेषेण दीप्यन्ते । ओं व्य न्ययेन एकवचनम् बहु ॥ तथा वक् त्रयीरूपा पतङ्गः । ॐ विभ- क्तिव्यत्ययः ४ । पतङ्ग पतनशीलं पक्षिवच्छीघ्रगामिनं सूर्यम् अशि श्रियत् आश्रित्य वर्तते । *‘‘णिश्रिद्रुवुभ्य: ’ ” इति लेश्चङ् आंदे- शः > । “ऋग्भिः पूर्वाहे दिवि देव ईयते । यजुर्वेदे तिष्ठति म ध्ये अह्नः । सामवेदेनास्तमये महीयते’’ इति तैतिरीयकम् [तै' ब्र' ३. १२.९.१] ।

इति सायणार्यविरचिते अथर्ववेदार्थप्रकाशे षष्ठकाण्डे तृतीयोनुवाकः । चतुएँनुवाके पञ्च सूक्तानि । तत्र ‘‘अन्तद्वे’’ इति प्रथमं सूक्तम् । तत्र आधेन तृचेन पिशाचरक्षोजनितभयनिवृत्तये सूत्रोक्तप्रकारेण अग्निं त्रिः प्रदक्षिणं कृवा पुरोडाशं जुहुयात् । सूत्रितं हि । ‘‘अन्तर्देव इति समन्तम् अनेर्जपंत्रिः परिक्रम्य पुरोडाशं जुहोति’’ इति [ कौ° ४.७]॥


१ K K V ‘म. We with A BD R B C.


1 S' तस्यै for तस्यैव . J S" वाक्य. 3 So S’. A४० अनेः कंघीमुष्णपूर्णायां जप°.