पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ°३ . स° ३१.]२०४
६१
षष्ठे काण्डम् ।

हे वृहत्पलाशे । बृहन्ति महान्ति समधिकानि पलाशानि पर्णानि य स्याः सा वृहत्पलाशा । हे सुभगे सौभाग्यकारिणि हे वर्षवृडे वर्षेणैव वृद्धे । अपुरुषप्रयत्नसिद्धे इत्यर्थः । हे ऋतावरि । ऋतम् उदकं सत्यं यज्ञ वा तद्वति । ५ ऋतशब्दात् ‘‘ छन्दसीवनिपौ ” इति मत्वर्थ- यो वनिप् । ‘‘वनो र च” इति ङीब्रेफौ ४ । “ एवंभूते हे शमि पुत्रेभ्यो मातेव ऋशेभ्यो मूलं मृडय । यथा माता पुत्रान् अभिवर्धयति तथा केशान् वर्धयेत्यर्थः ।

सप्तमी

आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः ।
पितरं च प्रयन्न्स्वः ॥ १ ॥
आ । अयम् । गौः। पृश्निः । अक्रमीत् । असदत्। मातरम् । पुरः ।
पितरम् । च। मृऽयन्। स्वः ॥ १ ॥

गौः गमनशीलः पृश्निः पृष्टवणों व्याप्ततेजा अयं सूर्यः आ अक्रमीत् आकान्तवान् । उदयाद्रिशिखरम् इति शेषः । आक्रम्य च पुरः पुर- स्तात् पूर्वस्यां दिशि परिदृश्यमानः मातरम् सर्वस्य भूतजातस्य जननीं भूमिम् असदत् स्वरश्मिभिव्यामोत् । ॐ षट्स विशरणगत्यवसादनेषु । अस्मात् लुङि लुदित्वात् लेः अङ आदेशः ॐ । ततः पितरम् वृष्टि लक्षणस्य रेतसो निषेकेण सर्वस्य जगत उत्पादकं स्वः स्वलकम् चका राद् अन्तरिक्षे च प्रयन् प्रगच्छन् । पश्चाद् व्यामोतीत्यर्थः । स एव वृद्ध्युदकलक्षणस्य अमृतस्य दोहनाद् गौरित्युच्यते ॥

अष्टमी ।

अन्तर्भारति रोचना अस्य प्राणादपानतः ।
व्युख्यन्महिषः स्वं६ ॥ २ ॥
अन्तः । चरति । रोचना । अस्य । प्राणात् । अपानतः ।
वि । अख्यत् । महिषः । स्वः ॥ २ ॥


x : May aidikaam Juse. New Ry २ ॐ सुवः