पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६०
अथर्वसंहिताभाष्ये

इन्द्रः। आसीत् । सीरंऽपतिः। शतऽऽअतुः। कीनाशः। आसन । मरुतः। सुऽदानवः ॥ १ ॥

मधुना मधुररसेन क्षौद्रेण वा संज्ञितम् संमानं यवम् दीर्घशूकम इमं धान्यविशेषं सरस्वत्याम् अधि सरस्वत्याख्याया नद्यः समीपे मणौ मनु ध्यजातौ देवाः अचीषुः कृतवन्तः । तदानीं कर्षणेन भूमौ तद् धान्यम् उत्पादयितुं शतक्रतुः इन्द्रः सीरपतिः हलस्याधिष्ठाता स्वामी आसीत् । सुदानवः शोभनदान मरुतः कीनाशाः कर्षका आसन् ।

पञ्चमी ॥

यस्ते मदोंबकेशो विकेशो येनाभिहस्यं पुरुषं कृणोषि
आरात् त्वया वननि वृद्धि त्वं शंमि शतवेल्श वि रेह ॥ २ ॥
यः । ते । मदः। अवऽकेशः। विऽकेशः। येन । अभिऽहस्यम् । पुरुषम् । कृणवं ।
आरात् । त्वत् । अन्या । वननि । वृत्।ि त्वम् । शमि । शतऽवंशा । वि। रोह ॥ २ ॥

हे शमि ते तव संबन्धी [यो] मदः हर्षः अवकेशः अवमतकेशोत्पादकः विकेशः केशविगमनहेतुश्च भवति । येन मदेन अभिहस्यम् अभित ह सनीयं पुरुषं कृणोषि करोषि । अहमपि त्वतः अन्या अन्यानि वद्यतिरि तानि आरात् दूरवर्तीनि वनानि तृक्षि वृश्चामि । हे शमि त्वं शतव ल्शा शतशाखा सती वि रोह विविधं प्ररूढा भव ॥

षष्ठी ।

वृहत्पलाशे सुभगे वर्धवृद्ध ऋतावरि।
मातेव पुत्रेभ्यो मृड़ केशेभ्यः शमि ॥ ३ ॥
बृहत्पलाशे । सुऽभंगे। वर्षेऽवृद्धे । ऋतऽरि।
माताऽऽव। पुत्रेभ्यः । मृड । केशेभ्यः । शमि ॥ ३ ॥


१ A D S P*cबंशा. २ J °पाला '. y " with P P C .