पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८
अथर्वसंहिताभाष्ये

‘‘पापलक्षणयोः शमीशमके नाभ्युद्य वापयत्यधिशिरः” इति [कौ° ४.७]॥ ‘‘ आयं गौः’ इति तृचेन खुफ्रिसवे गोरभिमर्शनसंपातादीनि कर्मा णि कुर्यात् । ‘‘आयं गौः पृश्निः [६.३१] अयं सहस्रम् [७.२३] इति धृतिं गाम्” इति [ कौ° ४. ७] कौशिकसूत्रात् ॥

तथा आधाने आहितस्य आहवनीयादेः अनेन तृचेन उपस्थानं कु यत् । ‘‘आहिंतम् आहवनीयम आयं गौरित्युपतिष्ठते ” इति हि वैतानं सूत्रम् [ वै° २. २] ॥

द्वादशाहे अविवाक्येहनि मानसस्तोत्रम् अनेन तृचेन अनुमन्त्रयेत । ‘‘अयं गौरिति चानुमन्त्रयते ’ इति वैतानं सूत्रम् [ वै° ६ ३] ।

तत्र अयम ॥

अमून् हेतिः पतत्रिणी न्येतुि यदुलूको वदति मोघमेतत् ।
यद् वां कपोतः पदमनौ कृणोति ॥ १ ॥
अमून् । हेतिः । पतत्रिणीं । नि। एतु । यत् । उलूकः। वदति। मोघम् । एतत्।
यत् । वा । कपांतंः । पुदम् । अनौ । कृणोति ॥ १ ॥

अमून् दूरं दृश्यमानान् अस्मदीयान् शन् पतत्रिणी पध्यात्मिका हे- तिः लि एतु नितरां गच्छतु । उलूकः घूको यत् अशोभनं वदति रत मोघम् निर्वीर्यं भवतु । वाशब्दः [ अप्यर्थे । कपोतः] कपोताख्यः पक्षी अशुभसूचनाय यत् पदम् अग्नौ पचनाग्निसमीपे कृणोति करोति । तद पि निर्वीर्यं भववित्यर्थः ।

द्वितीया

यौ तं दूतौ निश्चत इदमेतोर्महितौ प्रहितौ वा गृहं नः ।
कपोतोलूकाभ्यामपदं तदंस्तु ॥ २ ॥
यौ । ते । दूतौ । नि:ऽऋते । इदम् । आऽइतः । अप्रैऽहितौ। प्रऽहितौ । वा । गृहम् । नः ।
कपोतऽउल्काभ्यम् । अपीदम् । तत् । अस्तु ॥ २ ॥


1 S’ नाध्युयापयन्यधि ".S’ आक्षत'.