पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ°३० सू० २९.]२०२
५७
षष्ठं काण्डम् ।

गृहे प्रापयन्नित्यर्थः । तथा इमे गां पर्यनेषत परितो गृहम् अगमयन ॥ तथा देवेषु अस्यादिषु अवः हविर्लक्षणम् अन्नम् अक्रत अकृषत । एवं शान्तौ कृतायाम् इमान अस्मदीयान् पुरुषान् को नास हिंसकः आ दधर्षति आधृष्टान् बाधितान् करोति ।

षष्ठी ।

यः पृथुमः प्रवर्तमाससादं बहुभ्यः पन्थामनुपस्सशनः ।
योङयेथे द्विपो यश्चतुष्यस्तस्मै यमाय नमो अस्तु मृत्यवें ॥ ३ ॥
यः। प्रथमः। प्रऽवतंम् । आऽससाद । बहुऽभ्यः। पन्थम् । अनुऽपस्मशानः ।
यः । अस्य । ईशे । द्विर्डपर्दः । यः । चर्तुःऽपदः । तस्मै । युमायं । नमः । अस्तु । मृत्यवे ॥ ३ ॥

यो यमो बहुभ्यः अन्येभ्यो देवेभ्यः प्रथमः प्रथमभावी मुख्यः सन् प्रवतम् प्रवणवन्तं पन्थाम् पन्थानं मार्गम् आससाद प्राप । किं कुर्वन् अनुपस्पशानः अनुक्रमेण सवोन् प्राणिनः स्मृशन् परिगणयन् । अयम् अद्य मारयितव्यः अयं श्वः अयं परश्वः इत्येवम् आकलयन्नित्यर्थः । यो यमः अस्य द्विपदः पादद्वयोपेतस्य मनुष्यादेः प्राणिजातस्य ईशे ईटे य श्वास्थ चतुष्पदः गवादरीष्टे तस्मै यमाय मृत्यवे मृतिकारिणे देवाय नमो अस्तु नमस्कारो भवतु ॥

[ इति तृतीयेनुवाके] चतुर्थ सूक्तम् ॥

‘‘ असून हेतिः”’ इति तृचस्य पूर्वसूक्तेन सह उक्तो विनियोगः । सू त्रं च तत्रैवोदाढतमम् ॥

‘देवा इमम्” इन्यूचा पौनसिरसवे मधुमन्थाभिमर्शनादीनि कर्माणि कुर्यात् । सूत्रितं हि । ‘‘देवा इमं मधुना संजितं यवम् इति पौनसि- लं मधुमन्यं सहिरण्यं संपातवन्तम्” इति [कौ° ४. ७] ।।

“यस्ते मद ’ इति द्वाभ्याम् ऋग्भ्यां शमीलवनपापलक्षणशान्यर्थं शमीवल्शेन शिरस्युडापयेत् । सूत्रितं हि । ‘‘यस्ते मद इति शमीलून-


१ D K SV १ for , |we with A B KR C -, २ P द्विपदः •we with PJ C