पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२
अथर्वसंहिताभाष्ये

तृतीया ॥

नवं च या नवतिश्च संयन्ति स्कन्ध्य अभि ।
इतस्ताः सर्वा नश्यन्तु वाका अंचितमिव ॥ ३ ॥
नवं । च । याः। नवतिः । च । सम्ऽयन्ति । स्कन्ध्यः। अभि ।
इतः । ताः । सः । नश्यन्तु । वाकाः । अपचितम्ऽइव ॥ ३ ॥

नवोतरनवतिसंख्याका या गण्डमालाः स्कन्ध्याः । ग्रीवाभ्योऽधःप्रदे- शः स्कन्धः । तत्र भवा धमनीः अभि संयन्ति अभितो व्यापूवन्ति शेषम् उक्तार्थम् ॥

चतुर्थी ।

अवं मा पाप्मनसृज वशी सन् मृडयासि नः।
आ म भद्रयं लोके परमंन् हितम् ॥ १ ॥
अवं । मा । पाप्मन् । सृज । वशी । सन् । मृडयासि । नः ।
आ। मा । भद्रस्य । लोके । पाप्मंन् । धेहि । अविऽहतम् ॥ १ ॥

हे पाप्मन् पापाभिमानिदेव [ मा] माम् अव सृज त्वत्सकाशाद् विमोचय । वशी सर्वस्य वशयिता त्वं नः अस्मान् सं मृञ्यासि सम्यङ् मृडय सुखय ॥ . मृड सुखने । अस्मात् लेटि आडागमः ४ ॥ हे पाप्मन् अवहूर्तम् अपीडितं सा मां भद्रस्य । भन्दनीयस्य सुकृतस्य फल भूते लोके स्वर्गादौ आ धेहि स्थापय । ॐ अविहृतम् इति । तृ कौटिल्ये । “हु बरेश्छन्दसि ” इति निष्ठायां हुभावः ॐ ॥

पक्षमी ॥

यो नः पाप्मन् न जहांसि तमु त्वा जहिमो वयम् ।
पाथामी व्यावर्तनेन्यं पाप्मानं पद्यताम् ॥ २ ॥


१ A BD K K R S vcx पाप्म° clearly. PJ C प्रमुन्, ॐ पाप्मन.


1 S’ भजनीयस्य.