पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ°३• ° २५]१९४
५१
षष्ठं काण्डम् ।

हि । ‘‘ अव मा पाप्मन्निति तितउनि पूल्योन्यवसिच्य अपविध्यापरेद्युस्त्री स्त्रीन पुरोडाशसंवर्तश्चतुष्पथेप्यवचरति’ इति [ कौ° ४. ६ ॥ महाशान्यादौ क्रियमाणे नैधृतकर्मणि एतं तृचं जपन् नदीतीरं ग- च्छेत् । ‘‘अव मा पाप्मन्निति जपन्नुदकम् अभिगच्छेत्’” इति हि न- क्षत्रकल्पः [ न° क° १५]॥

तत्र प्रथमा ॥

पञ्च च याः पंचाशच्च संयन्ति मन्य अभि।
इतस्ताः सवों नश्यन्तु वाका अपचितामिव ॥ १ ॥
पर्छ । च । याः । पञ्चाशत् । च । सम्ऽयन्ति । मंन्याः। अभि ।
इत: । ताः । सर्वाः। नश्यन्तु । वाकाः । अपचितम्ऽइव ॥ १ ॥

पश्च च पञ्चाशच्च पञ्चाधिकपञ्चाशत्संख्याका य गण्डमालाः मन्याः गलस्योर्वभागे स्थिता धमनीर्मन्याशब्दवाच्या अभि संयति सर्वतो व्या भुवन्ति इतः अस्मात् प्रयोगात् ताः तत्संख्याकाः सवो गण्डमाला न श्यन्तु विनष्टा भवन्तु । वाकाः वचनीया दोषाः अपचितामिव पूजितां पतिव्रतां स्त्रियं प्राप्य यथा पराहता नश्यन्ति तथेत्यर्थः ।

द्वितीया ।

सनं च याः संसृतिश्च संयन्ति पॅव्य अभि ।
इतस्ताः सव नश्यन्तु वाका अपचितमिव ॥ । २ ॥
संत । च । याः । सप्ततिः । च । सम्ऽयन्ति । नैव्यः। अभि ।
इतः। ताः । सवः । नृश्यन्तु । वाकाः । अपचितम्ऽइव ॥ २ ॥

सप्ताधिकसप्ततिसंख्याका या ग्रीवासु भवा नाडीः गण्डमालाः ग्रेव्यः अभि संयन्ति अभितो व्याप्नुवन्ति । अन्यद् व्याख्यातम् ॥


• १ P मन्यः. २ A D R S PJ c- Cy सती. 1ey wil B B K K XV. ३ P / सी. We with P K. 1 S' पपुनि for पुल्यानि. Sp S'. Avsk : °युः सहस्राक्षायाप्सु बलन्पुरोडाश-संवर्ताश्चतुष्पथे च ( x, व ?)क्षिष्यावकिरति. 3 S’ धमनी for धमनीः