पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४
अथर्वसंहिताभाष्य

चतुर्थी ।

कृष्णं नियानं हर्यः सुपर्णा अपो वसन् दिवमुत् पतन्ति ।
घृतेन पृथिवीं व्युदुिः ॥ १ ॥
कृष्णम्। निऽयानम् । हयः । सुपर्णाः । अपः । वसनाः । दिवंम् । उत् । पतन्ति ।
ते । आ। अववृत्रन । सर्दनात् । ऋतस्य। आत् । इत् । घृतेन । पृथिवीम वि । ऊदुः ॥ १ ॥

कृष्ण कृष्णवर्णं नियानम् । नियमेन याति गच्छति अत्र ज्योतिश्च क्रम् इति नियानम् अन्तरिक्षम् । तत् प्राप्य हरयः हरणशीलाः पार्थि वं कृत्स्नं रंसं हरन्तः सुपर्णाः शोभनपतना आदिन्यरश्मयः अपो वसा नाः उदकम् आच्छादयन्तः उदकेन आत्मानम् आवृण्वन्तः दिवम् द्यो तमानम् आदित्यमण्डलम् उत् पतन्ति उङ्गमनेन मामुवन्ति । यद्वा कृष्णं नियानम इति दक्षिणायनाभिप्रायम् । तद्धि

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् [भ° { ° ४. २ ५ ॥ इति कृष्णपक्षसंबन्धात् कृष्णं नियानं यागहोमादिनियमयुक्तैः पुरुपैः प्राप्त व्यम् ईदृशं दक्षिणायनं प्रति उत्तरायणे समाहृतरसास्ते सूर्यरश्मयः ऋ तस्य उदकस्य सदनात् आदित्यमण्डलाद् आववृत्रन् आवर्तन्ते वृष्ट्यर्थम् वृतेर्मुडि ‘‘खुद्यो' लुडि” इति परस्मैपदम् । छान्द सश्लेश्चङ आदेशः । बहुलं छन्दसि ” इति रुडागमः ॐ ॥ दित् अनन्तरमेव घृतेन उदकेन ते सूर्यरश्मयः पृथिवीं व्यूदुः विशेषेण उन्दन्ति आद्रकुर्वन्ति । श्रूयते हि । यदा खलु वा असावादिन्यो न्य रश्मिभिः पर्यावर्ततेथ वर्षति’’ इति [ तै० सं० २. ४. १०. २] उ न्दी केदने इत्यस्मात् छान्दसे लिटि छान्दस उपधालोपः

पञ्चमी ।

पयंस्वतीः कृणुथप ओषधीः शिवा यदेजथा मरुतो रुक्मवक्षसः ।


S’ उद्दति.