पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ०२, सू°२००]१९३
३९
षष्ठं काण्डम् ।

पवमानः । पुनातु । मा । कवे । दक्षय । जीवसें ।
अथो इतेि । अरिऽततये ॥ २ ॥

पवमानः सोमः मा मां पुनातु शोधयतु पापविनिर्मुक्तं करानु । क मर्थम् । झवे क्रतवे कर्मणे दक्षाय बलाय । यद्वा क्रतुदक्षशब्दाभ्यां भ्रा णापानौ विवक्षितौ । ‘‘प्राणो वै दक्षः अपानः क्रतुः” इति श्रुतेः [ तै° सं० २. ५. २. ४]। तयोः प्राणापानयोः शरीरे अवस्थानार्थं जीवसे तद्भ तुकजीवनार्थे च पुनात्विति संबन्धः । अथो अपि च अरिष्टतातये । रिष्टं हिंसा तदभावः अरिष्टम्” तस्य करणाय । ॐ . ‘‘शिक्शमरिटस्या करे ’’ इति करणेयें तातिल् प्रत्ययः । ।

तृतीया ।

उभाभ्याँ देव सवितः पवित्रेण सवेन च ।
अस्सान पॅनीहि चसे ॥ ३ ॥
उभाभ्यम् । देव । सवितः । पवित्रेण । सवेनं । च ।
अस्मान् । पुनीहि । चक्षसे ॥ ३ ॥

हे सवितः सर्वस्य प्रेरक हे देव पवित्रेण पवनसाधनेन त्वदीयेन ते जसा सवेन प्रसवेन त्वत्प्रेरणेन च आभ्याम् उभाभ्याम् अस्मान् पुनीहि शुद्धान् कुरु । किमर्थम् । चक्षसे । ॐ चटिः पश्यतिकर्मा । द र्शनाय । ऐहिकामुष्मिकसकलसुखसाक्षात्कारार्थम् इत्यर्थः ।

चतुर्थी ॥

अमेरैिवास्य दहत एति शुष्मिणं उतेव मत्तो विलपन्त्रपयति
अन्यमस्मदिच्छतु कं चिदव्रतस्तपैर्वधाय नमो अस्तु रुक्मने ॥ १ ॥
अग्नेःऽईव । अस्य । दहतः। एति । शुष्मिणंः । उतऽइव । मतः । विऽल-पैन। अंर्प। अयति ।
अन्यम् । अस्यैत् । इच्छतु । कम् । चित् । अत्रतः ।.तणुःऽवधाय । नमैः।अस्तु । नक्सने ॥ १ ॥