पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८
अथर्वसंहिताभाष्ये

तथा पवित्रसवे अनेन [ तृचेन] निरुन्नहविरभिमर्शनसंपातादीनि क र्माणि कुर्यात् । ‘‘पुनन्तु मा देवजना इति पवित्रं कृसरम् ” इति हि सूत्रम् [कौ° € • ७]॥

तथा दीक्षयाः दर्भपिचूलैः पूयमानो यजमानः एतं तृचं जपेत् । ‘‘पुनन्तु मेति पाव्यमानः ” इति हि वैतानं सूत्रम् [वै°३. ११ ॥ सौत्रामण्यां <“ पुनन्तु मा ’ इत्ययं तृचः आसिच्यमानशतातृण्णानुम- न्त्रणे विनियुक्तः । ‘पुनन्तु मा [ ६ .१९] गिरावरगराटेषु[ ६. ६९] य- द्विरिषु[ ९.१२ १७] इति शतातृण्णाम् आसिच्यमानाम्”” इति हि वैतानं सूत्रम् [वै ° ५.३ ॥

‘‘अग्नेरिवास्य दहतः” इति तृचेन पितज्वरभैषज्ये दावाभौ ताम्रक्षु- वेण आज्यं हुत्वा व्याधितस्य मूर्भ संपातान् आनयेत् । ‘‘ अमेरिवेत्युक्तं दावे’’ इति हि सूत्रम् [ को° ४. ६] ।

तत्र प्रथम

पुनन्तु मा देवजनाः पुनन्तु मनवो धिया ।
पुनन्तु विश्व भूतानि पर्वमानः पुनातु मा ॥ १ ॥
पुनन्तु । सा । देवऽजनाः । पुनन्तु । मनवः। धिया ।
पुनन्. द्विधा । भूतानि । पर्वमानः। पुनातु । म ॥ १ ॥

देवजनाः देवजातीया मा मां पुनन्तु शोधयन्तु ॥ तया मनवः मनु- व्यजातीयाः धिया बुद्ध्या कर्मणा वा मां पुनन्तु ॥ विश्व विश्वानि स- र्वाणि भूतानि मां पुनन्तु । यश्च अन्तरिक्षे पवमानः गच्छन वायुः सोपि मां पुनातु । यद्वा दशापवित्रेण शोध्यमानः सोमः पवमानः । स च स्वात्मानमिव अस्मान शोधयतु ॥

द्वितीया ।

पवमानः पुनातु मा क्रत्वे दक्ष्य जीवसें ।
अथो अरिष्टतातये ॥ २ ॥


1 S» पवित्रकृसर°. We writi. } K.१५२%. z o S. 3 S' °तृण४