पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०६ अथर्वसंहिताभाष्ये शतं जीव शरदो वर्धमानोमिष्टे गोपा अधिपा वसिष्ठः ॥ २॥ सम् । कामतम् । मा। जहीतम् । शरीरम् । प्राणापानौ । ते । सऽयुजौ। इह । स्ताम्। शतम् । जीव । शरदः । वर्धमानः । अग्निः । ते । गोपाः । अधिऽपाः । वसिष्ठः ॥२॥ हे प्राणापानौ सं कामतम् आयुष्कामस्य शरीरे संक्रान्तौ भवतम् । तथा शरीरम् आयुष्कामस्य देहं मा जहीतम् मा त्यजतम् । सर्वदा शरीरे तिष्ठतम् इत्यर्थः । ४ ओहाक् त्यागे । लोटि “ईहल्यघोः' इति ईवम् ॥ प्राणापानौ संबोध्य तयोः शरीरेऽवस्थानं संग्रा- खं आयुष्कामं प्रत्याह उत्तरेण पादत्रयेण । हे आयुष्काम ते तव इह अस्मिन शरीरे प्राणापानौ प्राणितीति प्राणः नासिकाविवराद् बहिनि- गच्छन वायुः । अपानितीति अपानः हृदयस्य अधोभागे संचरन वा- युः । तौ सयुजौ संयुक्तौ परस्परसंयुक्तौ स्ताम् भवताम् । यावनं का- लं प्राणापानौ परस्परसंबद्धौ देहे वर्तेते तावन्तम् आयुर्भवतीति तयोः साहित्यं प्रार्थितम् । अनन्तरम हे आयुप्काम शतं शरदः शतवर्षपर्यन्तं जीव प्राणान धारय । तथा जीवतस्ते तव वर्धमानः हविरादिना समृद्धि गच्छन अग्निः गोपाः गोपायिता भवतु । गुपू रक्षणे । किपि "गुपूधूपविच्छि” इति आयमत्ययः । “लोपो व्योर्वलि" इति यका- रलोपः । अधिपाः अधिकं पाता मदीयोयम् इति आदरातिशयेन अग्निः पालयिता भवतु । वसिष्ठः वासयितृतमश्चास्तु वसुमतमो वा भ- ड. वासयितृशब्दाद् इष्ठनि “तुरिष्ठेमेयःसु" इति तृचो लोपः । वसुमच्छब्दाद् इष्ठनि मतोलुंकि टेलोपः ४४. ॥ पञ्चमी ॥ आयुर्यत ते अतिहितं पराचैरपानः माणः पुनरा ताविताम् । अग्निष्टदाहानिएतेरुपस्थात् तदात्मनि पुनरा वेशयामि ते ॥३॥ वतु । १J जहि.