पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ°२. सू० १ ५.] १€t
३१
घष्ठं काण्डम् ।

धिवनस्पतीनाम् उत्तमः उत्कृष्टः असि सोमपर्णाङ्गवत्वात् । “ तृतीयस्याम् इतो दिवि सोम आसीत्” इति प्रक्रम्य तैतिरीयके समाम्नातम् । तस्य पर्णम् अच्छिद्यत । तत् पणभवत् । तत् पर्णस्य पर्णत्वम्” इति [तै ब्रा० १. १. ३. १० ] । हे पलाश वृक्ष अन्ये वृक्षस्तव उपस्तयः उपासकाः । न्यग्भूता इत्यर्थः । त्वत्प्रसादाद् अस्माकं स तादृशः शत्रुः उपस्तिरस्तु उपासकः उपक्षीणो भवतु । यः शत्रुः अस्मान् अभिदासति उपक्षपयति ॥

द्वितीया ।

सबन्धुश्चासंबन्धुश्च यो अस्माँ अभिदासति ।
तेषां सा वृक्षाणमिवाहं भूयासमुतुमः ॥ २ ॥
सऽर्बन्धुः । च । असंबन्धुः । च । यः। अस्मान् । अभिऽदाति ।
तेषाम् । सा । वृक्षाणम्ऽइव । अहम् । भूयासम् । उत्ऽतमः ॥ २ ॥

सबन्धुः समानबन्धनः समानजन्मा दायादः । असबन्धुः असमानज- न्मा असगोत्रजः । य एवमात्मक उभयविधः शत्रुः अस्मान् अभिदासति उपक्षपयति तेषां शत्रुणां मध्ये अहम् उत्तमः उत्कृष्टतमः भूयासम् । तत्र दृष्टान्तः । यथा सा पलाशात्मिका ओषधिः वृक्षाणाम् उत्तमा भ- -वति तद्वद् अहम् उत्तमो भूयासम् इति ॥

तृतीया ।

यथा ओषधीनामुझेमो हविषां कृतः ।
तलाशं वृक्षाणमिवाहं भूयासमुन्नमः ॥ ३ ॥
यो । सोमैः। ओषधीनाम् । उत्तमः । हविषाम् । कृतः ।
तलाश । वृक्षाणम्ऽइव । अहम् । भूयासम् । उत्ऽतमः ॥ ३ ॥


यथा येन प्रकारेण ओषधीनाम् अन्यासां ,लतानां मध्ये लतात्मकः सोमः उत्तमः उत्कृष्टः हविषाम् चरुपुरोडाशादीनां मध्ये कृतः विधात्रा निर्मितः तथा वृक्षाणां मध्ये पॅलाश इव च अहं सज्ञातानाम् उत्तमो भूयासम् ।