पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३७१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


३६२ अथर्वसंहिताभाष्ये ८८ ‘‘य’’ [ ४. १] इति [कौ° ७. ९.] सूत्रितम् ॥ पुष्टिकर्मणि तटाकादिसर्वजनसाधारणोदके मिश्रधान्यं प्रक्षिप्य ‘‘सं मा सिञ्चन्तु '"[१] इत्यनया संपात्य अभिमन्त्र्य पुष्टिकामोऽश्नीयात् । स मा सिञ्चनवति सर्वोदके मैश्रधान्यम्’ इति [ को °३.७. ] कौशिकसूत्रात् ॥ तथा अग्निकार्यं अनया माणवकोऽग्नि पर्युक्षेत् । 6¢ सं मा सिञ्चनिच ति त्रिः पर्युक्षति’ ’ इति [ कौ° ७. ९] कौशिकसूत्रात् ॥ तथा अग्निचयने अभिषिच्यमानं यजमानं ब्रह्म एनाम् ऋचं वाचयेत् । ‘‘सं मा सिञ्चनिचयभिषिच्यमानं वाचयति ” इति वैतानसूत्रात् [वै° ५.२]॥ तत्र प्रथमा । तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुरातंतम् , ॥ ७ ॥ तंत् । विष्णोः। परमम् । पदम् । सदां । पश्यन्ति । सूरयैः। द्विविऽइव । चक्षुः। आऽततम् ॥ ७ ॥ तत् प्रसिद्धं पूर्वत्रोक्तं वा विष्णोः व्यापकस्य देवस्य परमम् उत्कृष्टं पू थं वा पदम् स्थानम् पद्यते गम्यत इति पदं ज्ञातव्यं तचम् सदा स र्वदा सूरयः मेधाविनः पश्यन्ति साक्षात्कुर्वन्ति । कीदृशम् । दिवि द्यु लोके चक्षुरिव आततम् । सर्वेषां चक्षुःस्थानीयं सूर्यमण्डलम् इह चक्षुः शब्देनोच्यते । ‘‘चक्षुर्मित्रस्य वरुणस्याग्नेः” इति हि निगमः [ ऋ० १ ११५.१] । आततम् समन्ताद् विस्तारितम् । ॐ ‘‘गतिरनन्तरः’’ इति गतेः प्रकृतिस्वरावम् 8 । सूर्यमण्डलमिव सर्वत्र प्रकाशस्वरूपं तत्त्वं पश्यन्तीत्यन्वयः । द्वितीया । दिवो विंष्ण उत वां पृथिव्या महो वैिष्ण उरोरन्तरिक्षात् । हस्तौ पृणस्व बहुभिर्वसव्यैराप्रयच्छ दर्पिणादोत सव्यात् ॥ ४ ॥ दुिवः । विष्णो इतेिं । उत । वा। पृथिव्याः । महः। विष्णो इति । उरोः । अन्तरिक्षात् । १ ।