पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८
अभवसंहिताभाष्ये

नम् एतत् कुर्वते शोभनाय नमः । तथा ते त्वदीयाय परावाकाय दूताय पराभवस्य वकने पराभववचनायैव वा नमोस्तु । हे मृत्यो ते तव सु- मयै' शोभनायै अनुग्रहात्मिकायै बुद्धयै नमोस्तु । ते तव संबन्धिन्यै दु र्भयै निग्रहबुद्धयै इदं क्रियमाणं नमोस्तु ॥

तृतीया ।

नमस्ते यातुधानेभ्यो नमस्ते भेषजेभ्यः ।
नमस्ते मृत्यो भूतेभ्यो ब्राह्मणेभ्य इदं नमः ॥ ३ ॥
नमः । ते । यातऽधानेभ्यः । नर्मः । ते । भेषंजेभ्यः।
नमः। ते । मृत्यो इति । मूलेभ्यः । ब्राह्मणेभ्यः । इदम। नमैः ॥ ३ ॥

हे मृत्यो ते तव संबन्धिभ्यो यातुधानेभ्यः पीडाकरेभ्यो नमोस्तु ॥ ते तव संबन्धिभ्यो भेषजेभ्यः रक्षाकरेभ्यश्च नमः ॥ हे मृत्यो ते तव संब- न्धिभ्यो मूलेभ्यः मूलबलभूतेभ्यः पुरुषेभ्यो नमोस्तु ॥ तथा ब्राह्मणेभ्यः शापानुग्रहसमर्थेभ्यो वेदविद्यः इदं नमोस्तु ॥

चतुर्थी ।

अस्थिखंसं पहुँचेंसमास्थितं हृदयाघ्रथम् ।
बलासं सर्वं नाशयाश्वा यश्च पर्वसु ॥ १ ॥
अस्थिऽब्रुसम् । परुऽस्त्रंसम् । आऽस्यितम् । दुर्ऽआमयम् ।
बलासम् । सर्वे । नाशय । अर्जेऽस्याः । यः । च । पर्वेऽसु ॥ १ ॥

अस्थितंसम् श्लेष्मरोगेण अस् स्त्रंसनम् । परुम्नसम् परुष पर्वणां शरीरावयवसंधीनां स्त्रंसनम् । आस्थितम् समन्तात् शरीरं व्याप्य स्थितं हृदयामयम् श्लेष्मद्वैतं कद्रोगम् । ईदृशं सर्वम् बलासम् बलम् अस्यति क्षिपतीति बलासः कासश्वासात्मकश्लेष्मरोगः तं नाशय । अनुठेयाः सं बोध्यते । यश्च बलासः अत्रैष्ठाः हस्तपादाद्यज्ञेऽवस्थितः । यश्च पर्वसु तत्संधिषु आश्रितः । तं बलासम् इति संबन्धः ॥


१ All our Sandhite MSS. maikals )}11 the vi=rg.often ०°रु, except A. :ymna's text toonito the vire