पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६
अथर्वसंहिताभाष्ये

आसन आदेशः $ । हृदे हृदयाय च शम् सुखकरम् अस्तु ॥

[ इति ] षष्ठकाण्डे द्वितीयानुवाके प्रथमं सुतम् ॥

‘‘ नमो देववधेभ्यः” इति तृचेन जयकामः स्वसेनां परितः मतिदिशम् उपस्थानं कुर्यात् । ‘‘नमो देववधेभ्य इत्युपतिष्ठते” इति हि सूत्रम् [ कौ° २. ५] ॥

तथा वैश्यस्य संग्रामजयार्थं प्रहरणोद्यतान् शबून् पश्यन् एनं तृचं जपेत् ॥ तथा अनेनैव तृचेन आज्यहोमम् सङहोमम धनुरिध्मेऽमौ धनुःस- मिदाधानम् श्रेधने शरसमिदाधानम् संपातितंभिमनिलतधनुःप्रदानं च कुर्यात् ॥

‘‘नमो देववधेभ्य इत्यन्वाह वैश्याय प्रदानान्तानि” इति हि सूत्रम् [ कौ०२. ६] ॥

तथा अनेनैव तृचेन सर्पवृश्चिकादिभयनिवृतिकामः ‘‘येस्यां स्य ” [३ २६] इत्यत्रोक्तानि अभिमन्नितसिकताप्रपणादीनि गुडूचीहोमान्तानि क र्माणि कुर्यात् । सूत्रं च तत्रैव उदाहृतम् ॥

तथा आवसथ्याधाने क्रव्याच्छमनानन्तरं गृहम् आगत्य अनेन तृचेन आज्यं जुहुयात् । सूत्रितं हि । ‘ये असयः [३. २१] नमो देववधे भ्यः[ ६.१३] अनेभ्यावर्तिन्” इत्यादि [कौ०९.४] ॥

तथा अनेन तृचेन ब्राह्मणायुधधारणदेवताप्रतिमानर्तनहसनाद्यद्भुतेषु त- च्छन्यर्थम् आज्यहोमं कुर्यात् । सूत्रितं हि । ४ अथ यत्रेतद् ब्राह्म- णा आयुधिनो भवन्ति’’ इति प्रक्रम्य ६८ मा नो विदन [१. १९] न मो देववधेभ्यः [ ६.१३]” इति [ कौ०१३ १२, १३ ] ॥

तथा यज्ञे वशापुरोडाशादिहविःषु काकोलूकश्वादिभिर्युषितेषु सत्सु त प्रायश्चित्तार्थम् अनेन तृचेन आज्यं जुहुयात् । सूत्रितं हि । ‘‘ अथ य ‘चैतद् वपां वा । हवींषि वा वयांसि द्विपदं चतुष्पदं वाभिमृश्य गच्छे “युर्ये अग्नयः[ ३ . २१] नमो देववधेभ्यः[ ६ .१३] इति सूक्तेन जुहु यात् सा तत्र प्रायश्चिति:' ’ इति [कौ०१३ .३१ ]॥


1 This is an autra 1; mantra, 2 So S. Rajku : अवगच्छ°. .