पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ°१. सू°१०.] १४३
२१
षष्ठं काण्डम् ।

पृथिव्यै । श्रोत्रय । वनस्पतिंऽभ्यः । अनयै । अधिऽपतये । स्वाहा ॥ १ ॥

पृथिव्यै पृथिवीदेवतायै ओत्राय शब्दग्रहणसाधनभूताय इन्द्रियाय । ‘‘दि- शः श्रोत्रं भूत्वा कणों आविशन्” [ऐ० आ° २. ४. २] इति श्रुतेस्त स्य दिगात्मकावाद् दिशां च पृथिव्येकदेशसंयोगित्वात् पृथिवीश्रोत्रयोर्मिथः संबन्धः । वनस्पतिभ्यः पृथिव्याम् अवस्थितेभ्यो वृक्षेभ्यः तदधिष्ठातृदेवता- भ्यः ईदृश्याः पृथिव्या योऽद्भिरधिपतिः तस्मै [च] स्वाहा इदं हविः स्वाहुतम् अस्तु ॥

पञ्चमी ।

माणायान्तरिक्षाय वयोभ्यो वायवधपतयं स्वाह ॥ २ ॥
गुणायं । अन्तरिक्षाय । वयःऽभ्यः। वायवे । अधेिऽपतये । स्वाह ॥ २ ॥

मुखनासिकाभ्यां संचरन् वायुः प्राणः । तसहचरं गन्धग्राहकम् इ न्द्रियं तदाश्रयभूता नासिका च प्रणशब्देन विवक्ष्यते । ‘‘ वायुः प्राणो भूत्वा नासिके प्राविशत्” इति हि श्रुतम् [ऐ० आ° २. ४,२] । तस्मै प्राणाय तत्संबन्धिने अन्तरिक्षाय तत्र ये संचरन्ति वयांसि पक्षिणस्तेभ्यो वयोभ्यः तस्यान्तरिक्षस्य अधिपतये अधिष्ठात्रे वायवे च इदं हविः स्वा हृ स्वाहुतम् अस्तु ॥

द्वेि चक्षुषे-नक्षत्रेभ्यः सूर्यायाधिपतये स्वाह ॥ ३ ॥
द्वेि । चक्षुषे । नक्षत्रेभ्यः । सूर्य । अधेिऽपतये । स्वाहा ॥ ३ ॥

दिवे द्युलोकाय चक्षुषे । रूपग्रहणसाधनम् इन्द्रियं तलकं च चक्रुः तस्मै । ‘‘आदिन्यश्चक्षुभूत्वाक्षिणी प्राविशत् » [ ऐ०आ०२. ४. २] इति श्रुतेः । तस्य आदित्यात्मकावात् द्युलोकस्य च तत्संचारस्थानत्वात् अन- यः संबन्धः । नक्षत्रेभ्यः द्युलोकस्येभ्यः ईदृश्य दिवः अधिपतये स्वा मिने सूर्याय प्रणमन सर्वप्राणिनां प्रेरकाय दिवाकराय स्वाहा इदं ह विः स्वाहुतम् अस्तु । ४ “ राजसूयसूर्य° ?” इत्यादिना सुवतेः क्यपि निपातनाद् रूप्रतिद्धिः ४ । तस्य च जगामाण्यरूपता अन्यत्र श्रयते ।