पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४
अथर्वसंहिताभाष्ये

तृतीया ।

यस्य कृण्मो हविगृहे तर्मने वधया त्वम् ।
तस्मै सोमो अधि ब्रवर्यं च. ब्रह्मणस्पतिः ॥ ३ ॥
यस्य । कृण्मः । हविः। गृहे । तम् । अन्ते । वर्धय । त्वम् ।
तस्मै । सोमंः । अधि। ब्रवत् । अयम् । च । ब्रह्णः । पतैिः ॥ ३ ॥

यस्य यजमानस्य गृहे चरुपुरोडाशादिलक्षणं हविः देवार्थं कृण्मः कु मेः । ॐ कृवि हिंसाकरणयोश्च । ‘‘धिन्विकृण्व्योर च’” इति उप ययः । ‘‘‘लोपश्चास्यान्यतरस्यां म्वोः” इति उकारलोपः ॐ । हे अग्ने त्वं तं यजमानं वर्धय समृद्धं कुरु । तस्मै यजमानाय सोमो देवः [अ- धि] ब्रवत् अधिव्रवीतु । अधिवचनं पक्षपातेन वचनम् । अस्मदीयोयम् इयनुगृह्वातु इत्ययेः । अयं च ब्रह्मणस्पतिः वेदस्याधिष्ठाता एतासंज्ञो देवः अधिव्रवीतु ॥

चतुर्थी ।

योऽस्मान् ब्रह्मणस्पतेदेवो अभिमन्यते ।
सर्वे तं रन्धयासि मे यजमानाय सुन्वते ॥ १ ॥
यः । अस्मान् । ब्रह्मणः । पते । अदेवः । अभिऽमन्यते ।
सर्वम् । सम् । रन्धयासि मे । यजमानाय । सुन्दृते ॥ १ ॥

हे ब्रह्मणस्पते अदेवः निर्देवो यः शत्रुः अस्मान् अभिमन्यते अभिह न्तव्यान् जानाति । अभिपूवों मन्यतिर्हिसायै । यथा । &न तत्र रुद्रः पशून अभिमन्यते” इति [तै० सं० ३. १. ९.६]। तं सर्वे शत्रु सुन्वते सोमाभिषवं कुर्वते मे मखं यजमानाय मदीयाय वा रन्धयासि रन्धय वशीकुरु । ॐ रध्यतिर्वशगमने इति यास्कः [ नि°१०.४० ] । रध हिंसासंराट्ठयोः । अस्मात् ' ण्यन्तात् लेटि आडागमः । ‘रधिजभोरचि इति नुम् । ‘शतुरनुमः” इति सुन्वच्छब्दात् परा विभतिरुदाहा ४ ॥

१ B V १ lon" ३. २ P सबूते. : with PJ K C.


1 S’ देवस्याधि