श्रीगणेशाय नमः ।
यस्य निःश्वसितं वेदा यो वेदेभ्योखिलं जगत् ।
निर्ममे तम् अहं वन्दे विद्यतीर्थमहेश्वरम् ॥ १ ॥
षष्ठे ' काण्डे त्रयोदशानुवाकाः । तत्र प्रथमेनुवाके पञ्च सूक्तानि । तत्र ‘दोषो गाय ” इति प्रथमं सूक्तम् । तत्र आणेन तृचेन नवशालायां पु- ष्टिकामो घृतं मधुमित्रं जुहुयात् । तथा च सूत्रम् यचूंषि यज्ञे [५,
- २६] इति नवशालायां सर्पिर्मधुमित्रं जुहोति दोषो गाय [ ६.१] इति
द्वितीयां युक्ताभ्यां तृतीयाम्” इति [ कौ °३. ६] ।
तथा तेनैव तृचेन स्वस्त्ययनकामः आज्यसमित्पुरोडाशादिशष्कुल्यन्तानि त्रयोदश द्रव्याणि जुहुयात् । तथा च सूत्रम् । ‘दोषो ६.१] पातं गाय नः [६. ३] इति पव” इत्यादि ‘‘भवाशJ[११.२] इत्युपदधीत’, इत्य न्तम् [कौ०७.१] ॥
तथा अनेन तृचेन सर्वलोकाधिपत्यकामः अयवाण यजत उपतिष्ठते वा ॥ तथा अनेनैवं समावर्तनानन्तरं भक्तं संपात्य अभिमनन्य अनीयात् ॥ सूत्रितं हि । ६ दोषो गायेत्यथर्वाणं समाहृत्याश्नातेि ” इति [4°७. १०] ॥
तथा सोमयागे प्रातःसवने बहिष्णुवमानस्तोत्रसमये ब्रह्म ‘दोषो गा य” इत्येतज्जपन् उदातारम् ईक्षेत । तद् उक्तं वैताने । ‘‘चात्वालाद् दक्षिणत उपविशन्ति । दोषो गायेति जपन्नुद्रुतारम् - ईक्षते ’’ इति [ वै' ३. ७] ॥
'इन्द्राय सोमम् ऋत्विजः' इति तृचेन स्तेमयागे द्रोणकलशस्यं सो मं ब्रह्म अनुमन्त्रयेत । ‘‘इन्द्राय सोमम् ऋत्विज इति द्रोणकलशस्यम् अनुमनत्रयते” इति वैतानसूत्रात् [ वै°३. ६] ॥.