पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भास्ताविकं किंचित् । ॐ भूधरभूजानिर्विजयतेतमाम् । अवि श्रुतिस्मृतिपारदृश्वानो विचारचातुरीचतुराः श्रौतस्मार्तकर्मनिष्ठा गरिष्ठा विद्वांस । विदितचरमेवेदं तत्रभवतां अन्निहोत्रस्यावश्यः भवतां यद् “एतद्वै :जरामर्य सत्रं यदग्रिहोत्रं कर्तव्यता जरया :वा होवास्मान्मुच्यते मृत्युना

  • यावज्जीवमग्रिहोत्रं जुहुयात्' इत्यादिश्रुति

शासनात् ।

  • कर्म स्मातै विवाहाझैौकुर्वीत प्रत्यहं गृही ।

दायकालाहृते वाऽपि श्रौतं वैतानिकाप्तिषु ? । यक्षता इति याज्ञवल्क्यस्मृत्यनुज्ञानाच प्रत्यधिकारपुरुषमन्निहोत्रमवश्यकर्तव्यं तामाटीकते श्रौतधर्मत्वादिति । सोऽयं धर्मस्तत्फलं च प्रत्यक्षतो ज्ञातुं शक्यं न वेति मीमांस्यते । साक्षात्कृतधर्माण ऋषयो बभूवुः । धर्मतत्फलयोरप्र- (नि० १ । ५ )इत्यादिभिर्यास्कादिवचनैर्धर्मः प्रत्यक्षतो ज्ञातुं शक्यत इति :पूर्वपक्षः । धर्म विचारं प्रतिज्ञाय प्रवृत्ता या द्वादशलक्षणी मार्ची मीमांसा तया राद्धान्तितत्वाद्धर्मस्तत्फलं च न प्रत्यक्षमित्युत्तरः पक्षः सिद्धान्तभूतः । तथाहि-भगवताजैमिनिना * अथातो धर्मजिज्ञासा (जै० सू० १ । १ । १) इति धर्मविचारं प्रतिज्ञाय तत्प्रमाणपरीक्षार्थ ‘तस्य निमित्तपरीष्टिः’ (जै० सू० १ । १ । ३ ।) इति सूत्रं प्रणी यते तेन च धर्मप्रमाणानि परीक्ष्यन्त इति प्रतिज्ञायते । ततश्च प्रमाणान्तराणि पञ्चापि परीक्ष्य केवलं शब्दैकसमधिगम्यत्वं धर्मस्य सिद्धा न्तितम् । * सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्ष मनिमित्तं विद्यमानोपलम्भनत्वात् '(जै० सू० । १ । १ । ४ ।) इति सूत्रेण धर्मस्य प्रत्यक्षप्रमाणगम्यता नास्तीति च प्रत्यष्ठापि । अस्मि न्विचारे जैमिनिमहर्षिवचः प्रमाणतरम् । आहत्य धर्मविचारार्थमेव प्रवृ तत्वात् । यास्कादीनां वचस्तु गौणं शब्दनिरुक्यर्थं तेषां मुख्यतयां