पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कार्यायालं तत्रैब कल्प्यते । अते यागशक्तिरात्मन्येव. तिष्ठतीति न विरोधः । एतदेवा वान्तरव्यापाराणां तत्त्वं यत्समीहितोद्दशप्रवृत्तेन साधनेन तत्सिद्ध्यर्थमन्तरा साक्ष्यमानत्वम् । तस्मादस्त्यपूर्व फलसाधनस्य कर्मणोऽवान्तरव्यापारभूतमङ्गानां च फलवदुपकारसाधना नाम् । एषाऽत्र प्रक्रिया-प्रथमं तावत्फलवाक्येन कर्मणः फलसाधनत्वं बोध्यते यागेन स्वगै कुर्यादिति । कथं विनश्वरेण फलं कर्तव्यमित्यपेक्षायामपूर्वं कृत्वेत्युच्यते । कथमपूर्व क्रियत. इत्यपेक्षायामङ्गानुष्ठानप्रकारेणेति । ततः पूर्वापरकालवर्तिभिरङ्गव्यापारविषयी कृतस्य यागस्यापूर्वसाधनत्वं न स्वरूपेण संभवतीति अपूर्वान्तरमपि परिकल्प्यते । दर्श पूर्णमासयोस्तु पक्षद्वयवर्तिभ्यां समुदायाभ्यां युगपत्फलापूर्वारम्भायोगादेकैकं प्रतिसमु दायमपूर्व. कल्प्यते । तत्कथंभावापेक्षायामग्न्यन्वाधानाद्यङ्गोपदेशः । ततः पूर्ववदेव पूर्वोः तराङ्गसंहितेभ्यस्तदुत्पत्तिर्न स्वरूपेण संभवतीति प्रतित्रिकं त्रीणि त्रीण्यपूर्वाणि कल्यन्ते । यदि पुनः षड्यागेभ्यः प्रथममेव षडपूर्वाणि कल्प्येरंस्ततोऽपूर्वार्थत्वादङ्गानामङ्गोपकृतेभ्यो यागेभ्योऽपूर्वसिद्धयै षडपूर्वाणि कल्प्यानि स्युरिति गौरवम् । तस्मादेकमेव फलापूर्वमुत्पत्यपू र्वाणि तु प्रतिप्रधानं भिद्यन्ते। तथाऽङ्गान्यपि क्रतूपकारकत्वेन स्वीकृतानि क्षणिकत्वान्न स्वरू पेण संहत्योपकर्तु शक्नुवन्तीत्यवान्तरव्यापाररूपाण्यंपूर्वाणि तावदारभन्ते । ततः सर्वाणि संहत्य प्रधानस्य सामथ्र्योद्वेोधनं फलारम्भेोन्मुखत्वरूपमनुग्रहं परमोपकाराभिधं जनयन्ति । तत्र त्वयं विभागः-संनिपत्योपकारकाणि द्रव्यदेवतासंस्कारद्वारेण यागस्वरूपस्यैव शक्त्यतिशयमादधानानि तदुत्पत्यपूर्वनिष्पतैौ व्याप्रियन्ते तद्द्वारेण फलापूर्वे । आरादुप कारकाणि तु साक्षादेवोत्पत्यपूर्वेभ्यः फलापूर्वनिष्पत्तौ । एवं प्रकारभेदे सत्यपि सर्वाण्य ङ्गानि यागापूर्वनिष्पत्तावनुग्राहकाणि भवन्तीत्येकरूपेणेत्थंभावेन स्वी क्रियन्ते । तस्माद स्ति कर्मजन्यं फलपर्यन्तस्थायि कर्मावान्तरव्यापारभूतमपूर्वमिति न कर्मणां कालान्तर वेदान्तिनस्तु-देवताप्रसादादेव स्थायिनः फलेोत्पत्तेरुपपत्तेः कृतमपुर्वेण । एवमशुभे नापि कर्मणा देवताविरोधनं श्रुतिस्मृतिप्रसिद्धं ततः स्थायिनोऽनिष्टफलप्रसवः । यथा च परमापूर्वे कर्तव्य उत्पत्यपूर्वाणामङ्गापूर्वाणां चोपयोग एवं प्रधानाराधनेऽङ्गाराधनानामुत्प त्याराधनानां चोपयोगः स्वाम्याराधन इव तदमात्यतत्प्रणयिजनाराधनानामिति मन्यन्ते । ए प्रथमाक्षेपः परिहृतस्तत्प्रसङ्गायातं चान्यदपि निरूपितमिदानीं द्वितीयाक्षेपः परिह्रियते यद्वेदान्तेषु ब्रह्मातिरिक्तस्य सर्वस्य मिथ्यात्वमुक्तं तस्य नायमभिप्राय:, वञ्चकवाक्यवत्स्त्र गर्गाद्युद्देशेन यागादिविधायिकानां श्रुतीनामप्रामाण्यमिति । अपि तु जगतः प्रत्यक्षादिप्रमाण सिद्धत्वात् * नेह नानाऽस्ति, आत्मैवेदं सर्वम्, एकमेवाद्वितीयं ब्रह्म ' इत्यादिश्रुतिवचनै स्तदभावस्य च प्रतिपादनातू , प्रमाणानां बलाबलविचारे च स्वार्थे तात्पर्थवत्याः श्रुतेरु