पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमिहोत्रचन्द्रिका । देवं त्वा देवेभ्यः श्रिया उद्धरामीत्युद्धरेत् ॥ २ ॥ दे० भाष्यम्-प्रवत्स्यद्यजमानादिपूत्तरत्र सर्वत्र समन्त्रहोमार्थमेव देवं त्वा देवेभ्य इति तेन यथासमाम्नातेन मन्त्रेण होमार्थमाहवनीयमुद्धरेत् । पूर्वमुद्धरणमन्त्रं सर्वार्थमि त्युक्तम् । अथोद्धराऽऽहवनीयभिल्यपराह्य आहेत्युतं ब्राह्मणे तद्यजमान आह ग्रदि संनिहितो भवति नोक्तमाचार्येण तथाऽपि वक्तव्यमविरोधात्सर्वशाखाप्रत्ययत्वाच्च यजमानस्य ॥ २ ॥ वृत्तिः-अनेन मन्त्रेणाग्रिहोत्रार्थमुद्धरेत्। पूर्वस्योद्धरेदिति वचनस्येदं प्रयोजनं गार्हपत्यं प्रज्वल्येत्यादेराहवनीयं ज्वलन्तमुद्धरेदित्यन्तस्य मन्त्रवर्जितोद्धरणप्रकारस्य सर्वार्थत्वज्ञाप नम् । एवं सर्वार्थमुद्धरणं विदधतैतत्साधितं भवति–येनाग्निा यत्र प्रयोजनं तत्र तस्योद्धरणं कर्तव्यमिति । शास्त्रान्तरे स्पष्टं वचनमस्ति * अर्थायार्थायाझिं प्रणयति ? इति । उद्धरणमन्त्रोऽयमन्निहोत्र एव नान्यत्रेति सिद्धम् ॥ २ ॥ उद्ध्रियमाण उद्धर पाप्मनो मा यदविद्वान्यञ्च विद्वांश्चकार । अह्ना यदेनः कृतमस्ति किंचित्सर्वस्मान्मोद्धृतः पाहि तस्मादिति प्रणयेत् ॥ ३ ॥ दे० भाष्यम्-उद्भियमाण इत्येतेन यथासमाम्नातेन मन्त्रेणाऽऽहवनीयं प्रणयेन येदाहवनीयायतनसमीपे ॥ ३ ॥ वृत्तिः-प्रणयेत्याङ्नयेदग्मिाहवनीयं प्रत्यनेन मन्त्रेण ॥ ३ ॥ अमृताहुतिममृतायां जुहोम्यग्रिं पृथिव्याममृतस्य योनौ । तयाऽनन्तं काममहं जयानि प्रजापतिः प्रथमोऽयं जिगायाग्रावग्ःि स्वाहेति निद्ध्यादादि त्यमभिमुखः ॥ ४ ॥ दे० भाष्यम्-अमृताहुतिमित्येतेन स्वाहाकारान्तनाऽऽहवनीयायतनेऽग्रिं निदध्यात् स्थापयेदादित्यमभिमुखो यस्यां दिश्यादित्यो भवति प्रतीच्यामवान्तरदिशि तमभिमुखेो वा निदध्यात् । तन्मुखे निधत्त इति श्रुतिः । यज्ञ एव तत्स्वर्गे लोके स्वर्ग लोकं निधत्त इति च श्रुतिस्तस्मादादित्यमभिमुख इत्याह । होम्न्यायेन निदध्यादमृतायां जुहोमीति दर्शनात् । एते त्रयो मन्त्राः । त्रीणि कर्माणि उद्धरणं, प्रणयनं. निधानमिति ॥ ४ ॥ वृत्तिः—आदित्याभिमुखो भूत्वाऽनेन मन्त्रेणाऽऽहवनीयायतनेऽििनदध्यादित्यर्थः॥४॥ एवं प्रातर्युष्टायां तमेवाभिमुखः ॥ ५ ॥ दे० भाष्यम्--एवं प्रातर्गार्हपत्यं प्रज्वल्येवमादि य उक्तो विधिरेवं तेनैव विधिना प्रातःकाले होमार्थ विहरेत् । . रात्रेश्चतुर्थकालाद्यादित्यस्य प्रथमकालाप्राप्तकालो भवति तस्मिन्प्रणयने प्रातरिष्टकालानयमो विधीयते । व्युष्टायां व्युष्टायामेव विहरेत् । व्युष्टायामुषस्युदितायामुषसि तमेवाभिमुखो निदध्यात्प्राच्यां दिश्यवान्तरदिशायां यस्य