पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका । वृत्तिसमेतमाश्वलायनीयान्निहोत्रसूत्रभाष्यम् । उत्सर्गेऽपराहे गार्हपत्यं प्रज्वल्य दक्षिणाग्रिमानीय विट्कुलाद्विक्तवतो वैक योनय इत्येके ध्रियमाणं वा प्रज्वल्यारणिमन्तं वा मथित्वा गाहेपत्यादावनीयं ज्वलन्तमुद्धरेत् ॥ १ ।। देवत्रातभाष्यम्-उत्सर्ग आधानाद्वादशरात्रमजस्रा अत ऊध्र्वमपि गतश्रियोऽ जस्रा एवातोऽन्यस्योत्सर्ग एकस्याग्रेर्द्धयोर्वा तस्मिनुत्सर्गे सत्यग्न्युद्धरणविधानं वक्ष्यतेऽ पराहेऽहश्चतुर्थभागे गार्हपत्यं प्रज्वल्य गार्हपत्य एवाजस्रो भवति तं प्रज्वल्य प्रज्वलनमिष्टमन्यथा संबोध्येति ब्रयात्तत्प्रज्वलनेन दक्षिणा िप्रज्वल्य यद्यग्न्याधेय आहृतो भवति तं दक्षिणाग्मिानीयाऽऽहवनीयमुद्धरेदित्यध्याहर्तव्यं साकाङ्क्षत्वाद्वाक्यस्य । दक्षिणान्निरिति आनयनोत्तरस्य संज्ञा कृता । । विट्कुलं वैश्यकुलं वित्तवतो वा वित्तमस्यास्तीति वित्तवांस्तस्माद्विक्तवतः कुलाद्वा । एकयोनय इत्येके । एका. योनिर्येषां त इम एकयोनयः । गार्हपत्यादाहवनीयं प्रणयेत् । । गार्हपत्याद्दक्षिणाग्मिावहनीय चैक आचार्याः । तथैवाऽऽहिता भवन्ति तेषां ध्रियमाणं वाऽऽधानप्रभति धार्थ एव वा भवति म्रियमाणं वा दक्षिणात्रिं प्रज्वल्य प्रज्वलनमिष्टं विधीयते प्रज्वल्याऽऽहवनीयमुद्धरेदित्यध्याह र्तव्यं साकाङ्क्षत्वात् । अरणिमन्तं वा, अरणी अस्य विद्येते अरणिमान् दक्षिणाग्रिस्तम् रणिमन्तं वा दक्षिणाझिं मथित्वाऽऽहवनीयमुद्धरेदित्यध्याहर्तव्यं साकाङ्क्षत्वात् । यदि मथित्वाऽहितो भवति तत्रैषामन्यतमकल्पेनामेिं प्रज्वल्य गार्हपत्यादाहवनीयसंज्ञमि प्रज्वलन्तमवोद्धरेदुद्रुह्य हरेत् प्राचीं दिशं दक्षिणाम्न्यधिकारात्पुनर्गार्हपत्यग्रहणम् । इह हरेदित्युक्त्वा पुनरुद्धरेदिति वक्ष्यति तस्मातूष्णीमुद्धरणम् ॥ १ ॥ गाग्यैनारायणवृत्तिः-उत्सर्गेऽजस्रोत्सर्गेऽन्निहोत्रहोमाथै विहरेन्नाजस्त्रेषु । होम स्वजत्रेष्वपि भवतीत्युक्तम् । एवं स्थिते विहरणसहितमग्निहोत्रहोमप्रयोगं वक्तुकाम उत्सर्ग इत्युक्तवान् । अत्रापराह्मशब्देनाहश्चतुर्थभागो गृह्यते । विहरणकाले गार्हपत्यं प्रादुष्कृत्य प्रज्वाल्य च दक्षिणाझिं वैश्यगृहादानयेत् । चतुर्णा वर्णानामन्यतमस्य द्रव्य वतो वा गृहाद्भार्हपत्याद्वा । नित्यधार्यथेत्प्रज्वलयेत् । काले काले यदि निर्मथ्यस्तदा मन्थेत् । एषां प्रकाराणामुत्पतिवशाद्वयवस्था । तेषामन्यतमप्रकारेण दक्षिणान्नेि साधयित्वा ततो गार्हपत्याज्ज्वलन्तमग्मिाहवनीयार्थमुद्धरेत्। पात्रान्तरेण पृथकू कुर्यादित्यर्थः ॥ १ ॥