पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अङ्गिबोधकत्वसमानाधिकरणात्यन्ताभविीयवैशिष्टयव्यासज्यवृत्तिधर्मान वच्छिन्नप्रतियोगित्वत्वपर्याप्तावच्छेदकताकमतियोगिताकाभाववदङ्गबोधक वाक्यनिष्ठनिरूपकतानिरूपितानिरूप्यताशालप्राबल्यमित्यस्मदुरुचरणा व्याच अग्निहोत्रचन्द्रिका। अतोऽग्निहोत्रतदङ्गप्रायश्चित्तं दक्षिणंझावेव वचनादाहवनीये तदभावे दक्षिणाम्रौ । तदिदं सूत्र्यत आचार्येण

  • ऋक्तश्चेद्भरिति गार्हपत्ये । यजुष्टो भुव इति दक्षिणे । सामतः स्वरित्याह

वनीये ' । ( आश्वलायनश्रौतसू० १।१२।३२) तानि चाङ्गानि यजुष्ट एव समुपसंहृत्य साङ्गमन्निहोत्रप्रयोगं कल्पयामास तत्तत्सूत्रकारः । वेदार्थार्थमेव प्रवृत्तानां कल्पसूत्राणामव्याहृतमेव प्रामाण्यम् । ते च कल्पसूत्रग्रन्थाः परिनि ष्पन्नप्रयोगरूपकस्योपदेशकाः । अतः पदार्थरूपोपदेशामात्रप्रयोजनो वैदिक एवायमर्थ इति विहितत्वादेवानुष्ठय आदर्तव्यश्चाभ्युदयनिश्रेयसार्थिभिः सकलपुरुषार्थसिद्धय इति दर्शनान्तरम् । तैश्च सूत्रग्रन्थैरिदमत्र प्रधानम् । एतान्यङ्गानीयमितिकर्तव्यता । एवं साध्य साधनरूपेण मर्यादया श्रुतिसिद्धया प्रपञ्चितम् । योगापतिं वक्ष्याम इत्याचार्येणामिहोत्रं सूत्रितं तदत्रोपनिबध्नीमः । यद्यप्यत्रेदानीमध्यत्रध्यापकपरम्परयोपलभ्यमानं सुसंरक्षितं तैत्तिरीयशतपथयैितरेयान्यत मब्राह्मणमग्निहोत्रविषय उदाहतुं सुशकं तथाऽपि भगवद्भिः प्रयोगशास्त्रप्रणेतृभिः कतमद्रा ह्मणं स्वीकृत्य प्राणायेि प्रयोगशास्त्रमिति न वयमिदंतया परिच्छेत्तं पारयामः । न हि च तत्तत्प्रयोगशात्रकृद्भिस्तत्तत्प्रयोगशात्रे प्रयुक्तान्यङ्गानि प्रधानानि च यथावदुपरिनिर्दिष्ट ब्राह्मणे समुपश्रूयन्ते । इति ब्राह्मणनिदर्शनाद्विरताः सन्तः प्रयोगशास्त्रमेव पुरस्कृत्य तप्र योगमीमांतनं वरमिति तनिदर्शनाय प्रयोगशास्त्रकृत एव शरणी कुर्मः। अपरिच्छिोऽप्ययं साङ्गः समान्नायः शब्दसमूहरूपेण वर्तमानोऽग्रे शाखया परिच्छितो बभूव । ततोऽप्यग्रे मन्त्रब्राह्मणरूपेणावष्टितत् । ततेऽययं मण्डलकाण्डसूक्तानुवाकरूपाण्यनुसार । ततोऽप्यग्र इदानीमुपलभ्यमानस्वरूपोऽयमष्टकाध्यायवर्गऋग्रूपेण व्यभाजि भगवता कात्यायनेन महर्षिणेति कालवशात्खलु विपरिवर्ततेऽयं समाम्रायोऽध्ययनाध्यापनानुष्टानानुष्ठापनसैकर्या थेiतं साक्षादाम्नायाम्नातपथानुसरणं दुरबगाहमिति जानानाः प्रयोगशास्त्रानुसरणमेवा स्मद्रुद्विगोचरं वरमिति मन्वानास्तदेवात्र निर्दिशामः ।