पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका । प्रमाणसरण्यः । ताश्च स्मतयो नित्यकर्मणामकरणे दोपं स्मारयन्ति तस्मादवश्य मनुष्ठेयत्वम् ।

  • निर्धनो धनसाध्येषु नित्येष्वधिकृतो यदि । चौर्यादन्यैः कुमागैरपी

ष्टयर्थ धनमर्जयेत् ? । १-१०८ मण्डनाचार्यः * ये शूद्रादधिगम्यार्थमग्रिहोत्र मुपासते । नित्यानि निन्दावाक्यानि काम्यहोमविवक्षया ? ॥ १-११० “आाव श्यके तु सोमादौ सर्वसंभारसंभृते । सुवर्णव्यतिरिक्ताङ्गद्रव्यालाभे हिं चोर येद् १-१-१११ अप्यन्यायशतं कृत्वा भर्तव्या मनुरब्रवीत्'। विहितत्वाचाऽऽ श्रमकर्मापि । (उत्तरमीमांसायाम् । ३ । ४ । ३२) इदमत्र पर्यवसन्नम् । ये शूद्रादिति मन्वाद्युक्तं निन्दावचनं काम्यहोमविषयं न नित्यकर्मविषयम् । तेषां करणश्रवणस्य बलीयस्वात्स्मृतेश्च तदपेक्षया दौर्बल्यात् सर्वसंभारस मृद्वै सुवर्णभिन्नदेयदक्षिणालाभे तु चौर्यमपि कृत्वा नित्यं सदक्षिणं कार्यं नादक्षिणेो यज्ञो भवतीत्यान्नायात् । अप्यन्यायेति स्मृतेः पोष्यान्तर्गतत्वाचाग्रीनां नित्यमनुष्टमेवेत्यर्थः । इदं त्वत्रापरं न विस्मर्तव्यम् । ये त्वेतां स्मृतिमुदाहृत्य

  • आत्मानं दक्षिणाहीनो नास्ति यज्ञसमो रिपुः । हन्त्यल्पदक्षिणो यज्ञो

तस्मान्नाल्पधनो यजेत्? । अल्पदक्षिणं यज्ञे नाऽऽरभेतेति वदन्ति तदेतद्वचनं काम्ययज्ञविष्यमिति । यस्य नित्यानि लुप्तानि तथैवाऽऽगन्तुकानि च । विपद्यपि न स स्वर्ग गच्छेत्तु पतितो हि सः । तस्मात्कन्दैः फलैलैर्मधुनाऽऽज्यरसेन वा । नित्यं नित्यानि कुर्वीत न तु नित्यानि लोपयेत् । इति बौधायनवचोभ्यां ज्ञायते। ये चान्ये यथा विद्वत्वमधिकारितावच्छेदकं तथा-आढय त्वम-धिकारितावच्छेदकमित्याहुस्तदपि काम्यपरमिति ज्ञेयम् । एवं हि तत्र समभिव्याहरन्ति “ इन्द्रियाणि यशः कीर्तिमायुः स्वर्गे प्रजां पशून् ?' इति । अतः कन्दैलैः फलैर्वाऽपि होतव्यमेवान्निहोत्रं न सर्वथा परित्याज्यमिति संसिद्धं विदुषां संसदि । अविद्वांसस्तु यथा तथा वा जल्पन्तोऽनया प्रक्रियया विद्वसंसदा प्रत्युक्ता वेदितव्याः । तदिदमग्हिोत्रं यजुषा विधीयते । तत्रैव तस्येोत्पत्तिाविधिं समामनन्ति

  • अग्हिोत्रं जुहोति ? इति ।

ननु कस्तावदयमुत्पतिविधिर्नाम । उच्यते । कर्मस्वरूपमात्रबेोधको विधिरुपति विधिः । द्रव्यं देवता च यागस्वरूपं देवतामुद्दिश्य त्यक्तस्य द्रव्यस्य प्रतिपत्तिरस्रौ प्रक्षेपो होम इत्याचक्षते । केचिद्धेोमान्तं यागस्वरूपं वर्णयन्ति । उत्पतिविधिरेव प्रबलः । तदिदमुत्पतिविधिलक्षणम्---