पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका । क्रान्त इव भवति । अथवा व्यावर्तत एवासौ मनुष्येभ्यो नासैौ मनुष्यैस्तुल्यो भवति श्रेयान्भवति किं पुनर्मनुष्येभ्यः श्रेयो ब्रह्मप्राप्तिः । ब्रह्म प्राप्रेत्यनेन कर्मणाऽपवृज्यत इत्यर्थः । अयमात्यन्तिकस्तिरोभाव । उदकान्तर्धानाद्यदाऽसावभृथमभ्य अथवा तिरोभाव वैत्यप्सु निमज्जति तदाऽसावन्तर्हितो भवति न दृश्यते तस्मादुदकान्तर्धानातिरो भवति यथा सरजस इति दृष्टान्त उपादीयते । यथा सरजसेऽहनि मनुष्यलोकादिवैनमन्तर्दे धातीति । सोऽयमर्थ औपनिषदैरुपबंहितः । तथा च श्रौते कर्मणि सत्रान्ते द्वयमवगतं प्रव्रजनमुदकान्तर्धानं च । तदानुषङ्गिक अरण्यवास इष्टिश्च । अत एवेमामिटिं विरजे ष्टिमिति ब्रह्मवादिन आसुः ।भाषित एषोऽर्थो भङ्ग्यन्तरेण भगवत्पादाचायैरीशावास्योपनिष

  • न जीविते मरणे वा गृधं कुर्वीत, अरण्यमेियात्, इति च पदम्' । पदं

शाखाविधिः।* ततो न पुनरेयादिति च संन्यासशासनात् ' (३० उ० भा० २) प्रव्रजिष्यत इमे विधय इमे निषेधा इति तद्विषय औपनिषदैरित एवाऽऽकृष्योपवृंहितो विषयः पुनः स्मृतिकारैर्निबन्धकृद्भिश्च परां काष्ठामापादितः सर्वेरपादानीमङ्गी क्रियते सोऽयं भगवत्याः श्रुतेर्महिमेति तं नमामो वयं शरणीभूतां भगवतीं विश्ववन्द्यामखिललेोकसंतारिणीं भूदेवाननकाननसंचारिणीं पण्डिताननान्तःपुरविहारिणीं चञ्चलायाः श्रियो द्वेष्टीमाम्नायापर नाम बिभ्रतीं श्रुतिम् । अत एव पण्डितप्रकाण्डभूतैः पूज्यपादैः सकललोकगुरुभिर्महता कौशल्येन शारीरकमीमांसायां संन्यासोऽभिहित इति मन्तव्यम् । परं यथाश्रममित्युक्त त्वाद्गृहिणस्तावदन्निहोत्रादिकमवश्यमनुष्टयमापद्यमानं नापलपितुं शक्यं यत्किंचि शैरिति वेदन्तु सुधियः । एतेनेदमपि सिद्धं भवति नानाहिताग्रिम्रियेतेति शासनादाहिता ग्रिमात्रेण शरीरं संस्कृतं भवति तैरेवग्रिभिर्दाहः प्रतिपत्तिकर्म । उपयुक्तानामग्रीनामुपयु क्तस्य च शरीरस्यायं संस्कारः । अतोऽपि देशान्तर आहिताग्मिरणे शरीरानुपलब्धौ पालाशविधिः कल्पकारैराग्नातः । परं न्यायतो वचनाच यद्युदकान्र्तधानं तर्हि पालाश विधिना शरीरं नोत्पादयेत् । अत एव त्रिकाण्डमण्डनेोऽपि वामनमतं श्रेोकयांबभूव “त्रिंशदिनादिभिर्वाऽग्रिहोत्राद्युपरमोऽस्त्विति । वेदान्ते पुरुषार्थाधिकरणे प्राह वामनः’ ॥ १-१०३ मण्डनाचायेः । एतेन समुवयवादः प्रत्युक्तो वेदितव्यः । द्विजत्वविशिष्टगृहस्थत्वावच्छिंलमुद्दिश्यानि होत्रानुष्ठानं वदामः । न हि ब्राह्मणत्वावच्छिन्नमुद्देश्यं संभवति समुचयवादिनां मते तु केवल मन्निहोत्राद्यव त्यज्यते विद्यमानामपि धर्मपत्नीं परित्यज्य विधुरवदटाटयमाना भवन्ति तच सकलश्रुतिस्मृतिपुराणेतिहासशिष्टाचारमीमांसाविरुद्धमिति वेदितव्यम् । सुस्पष्ट चैतत् सर्वमतस्वितरदिति शारीरक्रमीमासायामिन्युपरम्यते । प्रद्र्यन्ते नित्यत्ववादिन्यः