पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका । इति विधिचोदितषडङ्गसकलस्वशाखापरपर्यायवेदाध्ययनसंसिद्धार्थज्ञानवत्वमधिकारितावच्छेद. कम्(२) यद्वा स्वाध्यायविध्युत्थापितानुष्ठेयमात्रोपयोगि स्वाध्यायार्थज्ञानवत्त्वमधिकारित्वम् (३) यद्वा तादृशवेदाध्ययनवत्वमेवाधिकारिविशेषणं नार्थज्ञानवत्वमेव। तृतीयेऽस्मिन्पक्षेऽर्थज्ञानाभा वे कर्मण्यधिकारो नास्तीति वक्तुंन युक्तमिति याज्ञिककल्पानां पन्थाः । सोऽयं मीमांसया विरु ध्यत इति षाष्ठ प्रपञ्चितमस्माभिरपि पूर्वं न ह्यविद्वानिति संस्तुतम् । अत्र मण्डनप्र भृतयो याज्ञिकाः पृथगेवाभिप्रयन्ति । यथा ननु स्वाध्यायोऽध्येतव्य इति विधौ वार्तिके ऽधीतेन स्वाध्यायेन फलवदर्थज्ञानं कुर्यादिति वाक्याथों मीमांसासारे चाधीतेन स्वाध्या येन यच्छक्यं समीहितं तत्कुर्यादिति वाक्यार्थः स सर्वोऽप्यार्थिकः । वास्तविकस्तु स्वाध्यायोऽध्येतव्य इत्यस्मिन्वाक्येऽध्ययनकरणिकायां भावनायां स्वाध्यायस्य कर्मत्वम् । तच योग्यतया प्राप्यत्वं तेनाध्ययनेन स्वाध्यायं प्रामुयादिति मुख्योऽर्थः । नचानर्थकस्य प्राप्यत्वायो गाद्वाक्यान्तरणार्थवत्त्वज्ञानादीदृशं वचनं युज्यते । अधीतेन स्वाध्यायं यत्कर्तु शक्नुयात्त कुर्यादिति वाच्यम् । तां चतुर्भिरभ्रिमादत्ते । उरु प्रथस्वति प्रथयति । ऐन्द्रया गार्हपत्य मुपतिष्ठते । इत्यादिश्रौतलैङ्गिकविनियोगाभ्यामर्थवत्तानिश्चयेन तत्कल्पनं युक्तमित्युत्पश्यामः । इति । ननु ये तु ब्रह्मचर्यादेव प्रव्रजन्ति तेषां कथं ? बूमः । ये किल परित्राजेोः भवन्ति तेऽप्याश्रमादाश्रमान्तरमनुभूयैव । यः किल प्रत्यपाद्यौपनिषदे परित्राड्विधिः सोऽपि गृहस्थाश्रमविहितपरित्राड्विधरुत्कृष्यैवेति बूम:। सोऽयं भगवताऽपस्तम्बेन लाट्यायनेन च स्वसत्रे सत्रितस्तमिमं प्रदर्शयाम

  • परिणह्मान्निमाधाय दृषद्वत्या दक्षिणेन कूलेनाऽऽग्रेयेनाष्टाकपालेन शम्या

परासीयात् त्रिः प्रक्षे प्रति यमुनामवभृथमभ्यवैति । तदैव मनुष्येभ्यस्तिरो भवति ' । (आ० श्रौ० सू० २३ । १३।। १५) सोऽयमर्थः सर्वोऽपि लाटयायनाचार्येण सूत्रितस्तमिमं प्रदर्शयिष्याम यत्र क च ततो दूरे यमुना स्यात्तत्रैतयेष्टचेष्टा स्वयं साम गायन्नवमृथमभ्य वेयादगायन्चा । प्रत्रजिघ्थतोऽयनमिदं मन्य इतेि धानंजप्यस्तदैव मनुष्येभ्य स्तिरो भवतीति । न ग्रामं पुनरेवादितीव । स्वर्ग लोकमाक्रमते । व्यावर्तते श्रेयान्भवतीति वा । उदकान्तधानाद्वा यथा सरजस इति । ( ला० श्रौ० सू० १९ । १ अयमत्र तात्पर्यार्थः-सत्रनामकं किंचिदनुष्ठीयमानं नित्यं कर्म तत्र च कर्मान्तेऽ वभृथः सूत्रितः स च यमुनायाम् । यदि यमुना दूरे स्यात्तर्हि यस्मिन्कस्मिंश्चिद्देश इष्टिमिट्वा स्वयं साम गायन्नवभूथमभ्यवेयात् । तदैष मनुष्येभ्यस्तिरो भवतीति एष तिरोभावस्तस्य यनित्यमरण्ये वसन्न मनुष्यैईश्यते न मनुष्यैरुपलभ्यते स्वर्गलोकमा