पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका न तु मुक्त्यर्थं तेषामनुष्ठानान्तरमित्यर्थ सेयं ममक्षेोः कथा सविस्तरं प्राकाशे तत्रभवता वाचस्पतिना भामत्यां सर्वापेक्षाधिकरणे तथा हि आश्रमविहितनित्यकर्मानुष्ठानधर्मसमुत्पादस्ततः पाप्मा यते । स हि तत्त्वतो नित्याशुविदुःखानात्मनि संसारे सति नित्यशुचिसु खात्मलक्षणेन:विभ्रमेण मालिनयति चित्तसत्वमधर्मनिबन्धनत्वाद्विभ्रमाणाम् । अतः पाप्मनः:प्रत्यक्षे प्रत्यक्षोषपत्तिद्वाराऽपावरणे सति प्रत्यक्षोपपत्तिभ्यां संसारस्य तात्विकीमनित्याशुचिदुःस्वरूपतामप्रत्यूहं विनिश्चिनोति ततोऽस्मिन्नन भिरतिसंझं वैराग्यमुपजायते । ततस्तजिहासाऽस्योपावर्तते । ततो हानोपायं पर्येषते पर्येषमाणश्चाऽऽत्मतत्त्वज्ञानमस्योपाय इति शास्त्रादाचार्यवचनाच्चोपश्रुत्य तांजज्ञासत इति विविदिषोपहारमखेणाऽऽत्मज्ञानोत्पत्त्या वाऽस्ति कर्मणामुपयोगः । विविदिषुः खलु युक्त एकाग्रतया श्रवणमनने कर्तुमुत्सहते । ततोऽस्य तत्त्वमसि इति वाक्यान्निर्विचिकित्सज्ञानमुत्पद्यते' (ब्रह्मसू० भा० भा० ३ । ४ । २६) यथोक्तं कर्म सम्यगनुष्ठितं निष्कामस्य मुमुक्षेोः सत्त्वशुद्धयर्थं भवति ? (के० उ० भा० १ । १ । १ ) इय हे सोपानपरम्परा वेदान्तिभिरुपवर्णितेति तदनुयायिनामप्यस्ति नित्यक मुमुक्षुणां र्मणामननुष्ठाने प्रत्यवाय इति निरवद्यम् । एतेन कथमभावाद्भावोत्पत्तिारैति प्रलपन्तः परास्ता वेदिव्या इति शिवम् । इदानीं मुमुक्ष्णां कर्मण्यनुष्ठयानिन वेति चिन्तायामनुष्टयानीत्येव मुत्तरमीमांसायां निरणायि, अबीभषंश्चात्र भगवन्पादाचार्याः -

  • यज्ञादीनि मुमुक्षेोज्ञानसाधनानि भवन्ति यथाश्रमं सर्वाण्येवाऽऽश्रमकर्माणि

विद्योत्पत्तावपेक्षितव्यानि ' (ब्र० सू० भा० ३ । ४ । २७)

  • आश्रममात्रनिष्ठस्याप्यमुमुक्षोः कर्तव्यान्येव नित्यानि कर्माणि “यावज्जीव

ममिहोत्रं जुहोति ? इत्यादिना विहितत्वात् ?” इति । (ब्र०सू०भा०३॥४॥३२) वस्तुतस्तु मुमुक्षुर्वाऽमुमुक्षुर्वा भवतु विहितत्वादेवानुष्टये कर्मेति मीमांसकानां सर्वत न्त्रगोचरः सिद्धान्तः । एवं च नित्यकर्मानुष्ठानप्रकारेतिकर्तव्यता सर्वाऽपि प्रादार्श तत्तच्छा स्वीयकल्पसूत्रेषु । अतः कल्पसूत्राणामपि वेदाङ्गत्वेनाध्ययनं स्वाध्यायवद्व्यवस्थितम् । विना तदध्ययनान्नानाशाखास्वाम्नातोऽनेककर्मोपष्टम्भको विध्यादिर्विध्यन्तश्च विप्रकीर्ण स्वरूपोऽलसपुरुषैरल्पमल्या सुखेन बोद्रुमशक्य इति ज्ञात्वैव सूत्राणि प्राणैषीत्तत्तदाचार्यः । एवं च साङ्गश्चतुर्विधोऽपि विधिमन्त्रार्थवादनामधेयरूपो वेदो धर्मप्रमाणमिति ज्ञेयम् । तत्र विधिवाक्यानां विधायकत्वेनार्थवादानां स्तावकत्वेन मन्त्राणां स्मारकत्वेन नामधेयानां परिच्छेदकत्वेन सकलोऽपि वेदः प्रमाणमिति स्थितम् । एवं च (१) स्वाध्यायोऽध्येतव्य