पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्निहोत्रचन्द्रिका । अत एव प्रयोगशास्त्रकृतोऽपि

  • योगापति वक्ष्यामः ' ( आश्ध० श्रौ० सू० १ । १ । १ )

इति सूत्रयामासुः । इमान्यङ्गानि, इमानि प्रधानानि, इति खलु न्यायतः साधयितव्योऽर्थ स्तमेवार्थमान्नायतो विचार्य प्रणीतानि वाक्यानि हि श्रौतगृह्यसूत्राणीति वस्तुगतिः । अतः शाखान्तरीय आवश्यकस्तावान्गुणोपसंहारः सूत्रकारैः सूत्रित: । अतस्तावन्तमेवानुष्ठाय भवेयुः श्रेयोभाजनं वैदिका इति मीमांसकहृदयम् । ननु–

  • आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' (बृ०

उ० ४ । ५ । ६ ) इति श्रुत्या सकलवैदिकधुरीणानामात्मज्ञानसाध्यपरमपुरुषार्थापवर्गमुख्योपायात्मानात्मवि चार एव श्रेयस्करः प्रत्युत

  • कर्मचितो लोकः क्षीयते ?’ (छान्दो० ८ । १ । ६)

इत्यादिश्रुत्या धूमार्चिरादिमार्गप्रदर्शनेन च क्षुलुकफलकोऽयमारम्भ इति चेत्--बूमहे । ये तु नित्थसुखाभिव्यक्ति येऽपि दुःखध्वंसं वाऽविद्यानिवृतिं वा लिङ्गशरीरलयं वाऽपवर्ग माडुस्तेषामपि शरीरपरिग्रहाभावेऽविवाद एव । एतद्विरुद्धायास्तु वात्स्यायनस्मृतेद्वर्चष्टवर्षका मिनीनीविमोक्ष एवापवर्ग इति त्स्याः काममूलत्वेनाप्रामाण्यनिश्चयाद्वैसजनाधिकरणन्या येन श्रुत्यकल्पनात् । अतः सर्ववादिमतमिदमेवापवर्गलक्षणं कर्काचारभाषि शुभाशुभकर्मोपभोगनिमित्तनैरन्तर्येण प्राणिनां शरीरपरिग्रहाभावोऽप वर्गः ? । ( का० श्रो० सू० क० भा० २ । १ ) इति । अयं चापवगों निषिद्धकम्पवर्जनान्नित्यानुष्ठानाञ्च जायते नेतरथा । नन्विदमयुक्तम् । कर्मणां तावत्

  • कर्मणा पितृलोकः ? । (ब० १ । ५ । १६)

इति फलान्तरविधानेन निराकाङ्क्षत्वात् प्रत्युत

  • एतमव प्रव्राजिनो लोकमिच्छन्तः प्रत्रजन्तीति न कर्मणा न प्रजया

नास्त्यकृतः कृतेन ?’ (बृ० उ० ४ । ४ । २२) इत्यादिश्रुतिसहस्रमुमुक्षेोः कर्मणां त्यागविधानादतो न कर्मसाध्यत्वम् । सत्यम् । परमत्रास्ति कश्चिद्विशेषः-कर्मणां विविदिषावाक्येण मोक्ष उपादानात् । तथाहि यथाऽश्वन

  • तमेतं वेदानुवचनेन विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन ?’ (बृ०

उ० ४ । ४ । २२ ) इत्यनेनापवर्गेद्देिशेन तृतीयाश्रुत्या कर्मणां संयोगपृथक्त्वाधिकरणन्यायेन तादथ्र्येन प्रयेोगान्तरानुपादानान्नित्यविधिप्रेरणयाऽनुष्ठितानामेव नित्यकर्मणां मुक्तिसाधनत्वम् ।