पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्हिोत्रचन्द्रिका । अत एव प्रयोगशास्त्रकृतोऽपि

  • योगापति वक्ष्यामः ? ( आश्ध० श्रौ० सू० १ । १ । १)

इति सूत्रयामासुः । इमान्यङ्गानि, इमानि प्रधानानि, इति खलु न्यायतः साधयितव्योऽर्थ स्तमेवार्थमान्नायतो विचार्य प्रणीतानि वाक्यानि हि श्रौतगृह्यसूत्राणीति वस्तुगतिः । अतः शाखान्तरीय आवश्यकस्तावान्गुणोपसंहारः सूत्रकारै: सूत्रितः । अतस्तावन्तमेवानुष्ठाय भवेयुः श्रेयोभाजनं वैदिका इति मीमांसकहृदयम् । ननु

  • आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' ? (बृ०

उ० ४ । ५ । ६ ) इति श्रुत्या सकलवैदिकधुरीणानामात्मज्ञानसाध्यपरमपुरुषार्थापवर्गमुख्योपायात्मानात्मवि चार एव श्रेयस्करः प्रत्युत

  • कर्मचितो लोकः क्षीयते ? (छान्दो० ८ । १ । ६)

इत्यादिश्रुत्या धूमार्चिरादिमार्गप्रदर्शनेन च क्षुलुकफलकोऽयमारम्भ इति चेत्--बूमहे । ये तु नित्थसुखाभिव्यक्ति येऽपि दुःखध्वंसं वाऽविद्यानिवृत् िवा लिङ्गशरीरलयं वाऽपवर्ग माहुस्तेषामपि शरीरपारग्रहाभावेऽविवाद एव । एतद्विरुद्धायास्तु वात्स्यायनस्मृतेद्वष्टवर्षका मिनीनीविमोक्ष एवापवर्ग इति त्स्याः काममूलत्वेनाप्रामाण्यनिश्चयाद्वैसजनाधिकरणन्या येन श्रुत्यकल्पनात् । अतः सर्ववादिसंमतमिदमेवापवर्गलक्षणं कर्काचार्येरभाषि शुभाशुभकर्मोपभोगनिमित्तनैरन्तर्येण प्राणिनां शरीरपरिग्रहाभावोऽप वर्गः ? । ( का० श्रों० सू०'क० भा० २ । १) इति । अयं चापवर्गे निषिद्धकाम्यवर्जनान्नित्यानुष्टानाच जायते नेतरथा । नन्विदमयुक्तम् । कर्मणां तावत्

  • कर्मणा पितृलोकः । (बृ० १ । ५ । १६)

इति फलान्तरविधानेन निराकाङ्क्षत्वात् प्रत्युत

  • एतमब प्रत्राजिनो लोकमिच्छन्तः प्रव्रजन्तीति न कर्मणा न प्रजया

नास्त्यकृतः कृतेन ?' (बृ० उ० ४ । ४ । २२ ) इत्यादिश्रुतिसहस्रमुमुक्षेोः कर्मणां त्यागविधानादतो न कर्मसाध्यत्वम् । सत्यम् । परमत्रास्ति कश्चिद्विशेषः-कर्मणां विविदिषावाक्येण मोक्ष उपादानात् । तथाहि यथाऽश्वन जिगमिषन्तीत्यत्र गमनफले ग्रामसंयोगेऽधेोपादानं तथा ।

  • तमेतं वेदानुबचनेन विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन ? (बृ०

उ० ४ । ४ । २२ ) इत्यनेनापवगद्देिशेन तृतीयाश्रुत्या कर्मणां संयोगपृथक्त्वाधिकरणन्यायेन तादथ्र्येन प्रयोगान्तरानुपादानान्नित्यविधिप्रेरणयाऽनुष्ठितानामेव नित्यकर्मणां मुक्तिसाधनत्वम् ।