पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका । “नह्यविद्वान्विहितोऽस्ति ? । (पू० मी० ३ । ८ । १८) ।। इति । वार्तिकयांबभूवात्र कुमारिलस्वामी

  • नह्यज्ञेो विद्यते क्रतौ। अधिकारो हि विदुषां नान्येषामिति निश्चयः ।

अवीभपदत्र भाष्यकारोऽपि तत्र होममात्रे चोदिते वेदाध्यायी शक्त इत्यभिधीयते न.विद्वान् ? ॥ इतेि । ( शा० भा० ३ । ८ । १८ ) विहितकर्माण्यनुतिष्ठन्तु परिजिहीपेव प्रवृत्तः । एवं चानुष्ठानं तदर्थं ज्ञानं तच स्वाध्यायस्येत्यवगतम् । स्वाध्या यत्वं हि प्रतिव्यक्ति गोत्वादिवत्प्रतिशाखं समवैति । ततश्चाधीतेन स्वाध्यायेनेष्टं भावये दित्यर्थपर्यवसन्नस्वाध्यायविधौ स्वाध्यायस्योपादेयतया तद्रतैकत्वस्य पश्धकत्वत्पित्रादिपरम्प रागतत्वरूपस्वत्वस्य समासान्तर्गतस्याश्वाभिधान्यामश्वच विवक्षितत्वादेकशाखाध्यायिना नावश्यमनुसर्तव्यम् नचैवं वेदान्तरस्याप्यध्ययनं न प्रसज्यत इति वाच्यम् । यजुर्वेदे समान्नातद्रव्यदेवतारूपयुक्तज्योतिष्टोमादिकर्मण ऋग्वेदे याज्यानुवाक्यादिगुणमात्रं सामवेदे च स्तोत्रादिगुणमात्रं विधीयते । अतः साकाङ् क्षत्वाद्वेदान्तराणामतुल्यकार्यकारित्वात्समुचयो युज्यते । शाखान्तरेषु तु नैवं संभवति सर्वासु ह्यध्वर्युशाखासु दर्शपूर्णमासज्योतिष्टोमादीनि द्रव्यदेवतारूपवन्ति तान्येवान्योन्य निरपेक्षाणि विधीयन्त इति शाखान्तराणां तुल्यकार्यत्वम् । अतो नैकस्यानकशाखाध्ययन सैभवः । अयमेव न्यायसिद्धार्थ इति जैभिनिरपि सूत्रयांबभूव

  • वाक्यासमन्वयात् (३ । ४ । १७ ) इति

सत्रथ स्वाध्यायविधेः पूर्वप्रपश्चितया रीयैकशाखाध्ययनविधिपरत्वादेकस्यानेक शाखाध्ययनाभावादेकस्मिन्पुरुषे शाखान्तरवाक्यस्यासमवायान्न तच्छूवणसंभवः । अतः सर्वो जनः शाखान्तरं शृण्वन्नप्यश्रुतमेव मन्यते । एवं च पितृपरम्पराप्राप्तः समान्नाय एव स्वश ब्दार्थः । स च शाकलबाष्कलकण्वमाध्यंदिनतैत्तिरीयहिरण्यकेश्यादिरूपः । एवमपि याज्ञि कास्तावदुणोपसंहारं वैकल्पिकमिति जानन्तः परशाखीयं विध्यन्तमुपसंहृत्य सुखं'कर्माण्य नुतिष्ठयुरिति कृपया तं परकीयमपि विध्यन्तं विध्यादिं च कमैक्यत्सूत्रयांबभूवुरिति सर्वेरपि स्वस्वसूत्रकार एवानुसरणीयोऽनुष्ठानेतिकर्तव्यातायामिति विचारक्षमः पन्थः । न च वाच्यं कुतः सूत्रकारैर्गुणोपसंहारः कृतः, अलं स्वशाखेोतेतिकर्तव्यतानुष्ठानेनेति । प्रयोगशास्त्र कृद्भिः कात्यायनापस्तम्बप्रभृतिभिन्यीयत: सिद्धार्थस्यैव सूत्रितत्वात् । जैमिनिरपीममर्थ साधयामास अपि वाऽप्येकदेशे स्यात् प्रधाने ह्यर्थनिवृत्तिगुणमात्रमितरतदर्थत्वात् (पृ० मी० ६। ३ । २) इति