पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवयजनप्रतिकृतिप्रदर्शितविषयप्रमाणानि ।

  • तस्याग्रेण मध्यमं वंशं गापत्यायतनं भवति ? (आप० श्रौ० ५॥४॥२)

सूत्रार्थः-तस्य शरणस्य पृष्ठवंशादधस्तनं देशमग्रेण गार्हपयस्य स्थानं भवति । पञ्चतिलाधिकसार्धत्रयोदशाङ्गुलपरिमितेन शुल्बेन कर्कटेन वा कृतवर्तुलं गार्हपत्याग्रेरायतनं भवति । १ चतुत्रिंशतिलाः पृथुसंश्लिष्टाः-एकमङ्गुलम् । पृथुसंक्षिष्टाः-चतसृष्वपि दिक्षु संश्लिष्टाः संबद्धाः प्रथनगुणविशिष्टा इत्यर्थः । अयं पृथुसंश्लिष्टशब्दार्थ इति शुल्बशास्त्रविदो याज्ञिकाः प्राहुः । आहवनीयान्यायतनम्-गार्हपत्यायतनस्य पूर्वशङ्कमारम्याष्टासु प्रक्रमेष्वतीतेष्वा हवनीयस्य पश्चिमशङ्को: स्थानम् ।

  • तस्मात्प्राचीनमष्टासु मक्रमेषु ब्राह्मणस्याऽऽहवनीयायतनमेकादशसु राज

न्यस्य द्वादशसु वैश्यस्य ' ( आप० श्रौ० सू० ५॥४॥३ ।) सूत्रार्थः--अष्टासु प्रक्रमेष्वतीतेष्वाहवनीयस्थानम् । प्रक्रमो द्विपदत्रिपदो वा पदं पञ्चदशाङ्गुलमिति बैौधायनः । द्वादशाङ्गुलमिति कात्यायनः । तत्र समचतुरश्र चतुर्विशल्य झुलत्मकमाहवनीयायतनम् । दक्षिणाग्न्यायतनम्-गार्हपत्यायतनस्य पूर्वशङ्कमारभ्य पुरस्तात्षष्टयङ्गुलमिते देशे शहूं निखाय, तस्मात्समं दक्षिणतः षट्सप्तत्यङ्गुलपरीमिते देशे शाहुं निस्वाय, तथा च गार्हत्यायतनस्य पूर्वशङ्कमारभ्य दक्षिपन्तः पुरस्तात् षण्णवत्यङ्गुलपरिमिते देशे दक्षिणाग्रे रायतनमध्यशङ्गं निखाय सार्धयवद्वयाधिकैकान्नविंशत्यङ्गुलात्मकशुल्बेन कर्कटेन वा मण्डलं कृत्वोत्तरार्ध त्यक्त्वा दक्षिणतोऽर्धचन्द्राकाररेखां कुर्यात् । तदेतद्दक्षिणाग्रेरायतनम् । “क्षिणतः पुरस्ताद्वितृतीयदेशे गार्हपत्यस्य नेदीयसि दक्षिणाग्रेरायः सनम्” ( आप० श्रौ० सू० ५॥४॥५l) सूत्रार्थः-गार्हपत्यस्य दक्षिणतः पुरस्ताद्वितृतीयदेशे गार्हपत्याहबनीययोरन्तराल देशस्य तृतीयोऽो विगतो यस्माद्देशात्स तथोक्तः । गार्हपत्यस्य नेदीयसीति परमत निरासार्थमिति ज्ञेयम् । बितृतीयदेशे-इति समीपसप्तमी चेयं बितृतीयदेशस्य पश्चात्स्तो कान्तरे देश इत्यर्थः । तीर्थम्-उस्कर प्रणीताश्चान्तरेण यो देशः स तीर्थसंज्ञको ज्ञेयः । तीर्थप्रदेशज्ञाना प्रतिकृतौ प्रणीतोत्करदर्शनमिित ज्ञेयम्।