पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवयजनप्रतिकृतिप्रदर्शिताविषयप्रमाणानि ।

  • पूर्वेणोत्करमपरेण प्रणीता एतत्तीर्थमित्याचक्षते । ” ( आश्ध० श्रौ०

सू० ११॥१॥४ ) यजमानसंचरः--अपरेण वेदिदेशं पूर्वेण गार्हपत्यं दक्षिणाठिं च पूर्वेण गच्छेत् ।

  • आहिताग्रािचम्यापरेण वेदिमतिव्रज्य ? ( आश्ध० श्रौ०सू० २ ।

३॥११॥ ) श्राचमनस्थानम्-आहवनीयस्यैशानीतो निष्क्रम्य प्राङ्मुखो भूत्वाऽऽचामेत् ।

  • भागुदगाहवनीयादवस्थाय प्राङ्मुखो यज्ञोपवीत्याचम्य ? ( आश्ध०

श्रौ० सू० १॥१॥४ ।) यजमानस्थानम्-वेदिदेशस्य दक्षिणत उपविशेत् ।

  • दक्षिणत उपविश्य ” ( आश्ध० श्रौ० सू० २३॥११।)

पत्नीस्थानम्-गार्हपत्यस्य दक्षिणत उदङ्मुस्युपविशेत् ।

  • दक्षिणत उदीच्युपविशति ?' ( आप० श्रौ० सू० २॥५॥८॥ )

१ धृष्टिः-धृष्टिः, उपवेष इत्यनर्थान्तरम् । सा च धृष्टिर्यस्य कस्यचिद्यज्ञियकाष्ठस्य कार्या । सा चाङ्गरनिरूहणभस्मसमीकरणादिपूपयुज्यते । सा प्रादेशमात्राऽरनिमात्रा वा कार्यं । तद्विधानं चैवं सूत्र्यते * उपवेषं करोति ? ( आप० श्रो० सू० सञ्यतः २ अग्रिहोत्रस्थाली-सैषा मृन्मयी दुग्धतापनार्थमुपयुज्यते । तस्याः प्रमाणं

  • प्रसृताकृतिरार्यकृताऽन्निहोत्रस्थाल्यूर्वकपालाऽचक्रवर्ता ? ( आप० श्रौ०

सू० ६॥३॥७| ) सूत्रार्थः-प्रसृताकृतिः—असंकुचितबिला । आर्थकृता-आयैः कृता । ऊध्र्वेकपाला अतिर्यग्वृत्तकपाला । अचक्रवर्ता वर्तनं वर्तः, न चक्रे वर्तनं यस्याः सा तथोक्ता न चक्र भ्रमणेन निर्मितेत्यर्थः । ३ सुधुवः--खदिरकाष्टकृतोऽर्थलक्षणः । अन्यत्रार्थलक्षणं नियतमस्ति । अङ्गुष्ठपर्व मात्रबिलः त्रुव इति भारद्वाजः । अरत्निमात्रदैध्यैः ।