पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निवेदनम् । श्रीरामदीक्षितानां साहाय्याद्विरचिता मयाऽल्पधिया । भवतु मुदे गिरिजापतिपदार्पिता चन्द्रिकाऽमिहोत्रस्य ।। १ ।। जानक्यां रामचन्द्रादधिगतजनुषो यस्य बन्धुर्वरीयान् दत्तात्रेयाभिधेयः सकलनिगमवित्सोमयाजी सुशीलः । अन्यौ द्वौ शीलविद्यामुखगुणरुचिरौ विष्णुगोविन्दसंज्ञौ खापर्ड श्रीगणेशो विलसति च महानाश्रयो यस्य नित्यम् ॥२॥ स्वाध्यायं केशवार्यात्, निगुडकरमुरोधमतः शब्दशास्त्र तन्त्रं वैयासिकं यो बुधकुलतिलकाच्छूीविरूपाक्षसूरेः । मीमांसां वैद्यनाथाचिरतरमपठीद्रामतः श्रौतविद्यां तेन श्रीवामनेन व्यरचि कृतिरियं क्षम्यतां वेिद्वरिष्ठेः ।। ३ ॥ अयि प्रियवाचकमहाशयाः, सुतरां खलु मुदमापन्नोऽस्म्यद्य भवतां करतलं प्रापयन्नमिहोत्रचन्द्रिकामिमाम् । यद्यपि नानाविधान्धान्यराशी न्स्वगृहस्थितेषु कोष्ठागारेषु व्यवस्थापयन्क्षेत्राधिपतिलकानामादराय भवति गीयते च श्रीमांश्चेति सर्वेस्तथाऽपि “ नासौ विस्मरति सस्योत्पादने कृत परिश्रमान्दीघद्योगिनोऽनेकान्पुरुषान्, न ह्येकेनैव तेन निखिला कृषिः कृष्यते न हि स्वेनैव तेन सर्वबीजनिर्वापणं क्रियते न वा सस्यधारणा पर्यन्तं बहुविधाः परिश्रमाः सह्यन्ते । एवमेव ग्रन्थोऽयं श्रीमतां कृपापात्र मभूदद्य तथाऽपि तनिर्माणे सहृदयाः सहाया अपि भूयांसः सन्तीति निवेदयन्वहाम्युपकारभरानेतेषामनेकशो विनीतेन शिरसा । तत्र स्मृतिपथमायाति पुनः पुनः श्रीमालोकमान्यो गङ्गाधरात्मज स्तिलकान्वयजो बालशर्मा, महाभागोऽसौ ग्रन्थमिमं प्रत्यक्षीकर्तु नाव शेषितः करुणाविमुखेन कृतान्तेनेति नितरां विषण्णोऽस्मि संवृत्तः । अनेन खलु परमोदारेण पुरुषपुंगवेन स्वकीयग्रन्थालयस्थमृक्संहिताभा ष्यमुपहारेरॉकृत ग्रन्थकर्ने । न केवलं प्रस्तुतग्रन्थप्रकाशने किंतु नित्य मेव शास्त्रीयवाग्यज्ञानुष्ठानसमये साहाय्यं व्यतनोदेष ममेति सविनयमावि ष्करोमि कृतज्ञतामेतस्मिन् । अथास्मिनुपकृतस्मृतिसमुद्यमे झटिति वर्णनविषयमवतरति मदीया लेखनी तत्रभवतः श्रीमतः परांजपेकुलदीपकस्य शिवरामात्मजस्य नरहर शर्मणः ( डॉ० बाबासाहेब परांजपे ) । एतेन खलु सुगृहीतनामधेयेन