गलध्यये
म० टी०-नशक्तिः कम्यताम् । शक्तेः प्रत्यक्षावगम्यत्वानियमस्य त्वदुक्थैधासिद्धेरित्यर्थः ।
तथा च भूमेर्मतं नाऽऽधारः । स दाधार पृथिवीं यामुतेमामिति श्रुतिप्रामाण्येनेश्श्च
रस्य जगदाधारस्वेन चामूर्तेश्वरा। धारत्वं भूमेर्नान्याधार इयनेनाङ्गीकृतं ततु निराधा
रतुल्यमेवेति भावः । ननु शेषादीनामीश्वरांशतयाऽन्तरिक्षावस्थानशक्तिकल्पनं युक्तम् ।
भूमेस्तदभावादयुक्तं शक्तिकल्पनमित्यत आह--अष्टमूर्तेरिति । चकारात्सा भूमिरष्टमूर्तेः
पृथिवीजलाग्निवाय्वाकाश सूर्यचन्द्रयजमानारमकस्य महेश्वरस्य मूर्तिः शरीरम् । तथा
च भूमेरीश्वरमूर्तित्वादन्तरिक्षवस्थानशक्तिकल्पनं युक्तमेवेति भावः । एतेन जल
भूमिगोलस्तु म्बकासुत्तरतीति यवनमतमपास्सम् । संलिले विलयो मृदो भवेदिति गोरप्सु
न युज्यते स्थितिः । अथ पात्रगतेति तत्कथं न भवेद्यावदिलेव पार्थिवम् । यदि
बाऽम्भसि संस्थिता मही सलिलं तस्क्व वद प्रतिष्ठितम् । गुरुणोऽम्भसि चेत्स्थिति-
र्भवेक्षितिगोलस्य न किं विहायसि । इति लट्ठोक्तेर्भूमाविदं जलमिति सार्वजनीन
प्रतीतेर्भूमिजलयोराधाराधेयभावप्रासंधैश्च ॥ ४ ॥
इदानीं कथमियं भूमेः स्वशक्तिरिय शंङ्गं परिहरनाह
यथोष्णताफनलयोश्च शीतता विधौ ङतिः के कठिनवमश्मनि ।
मरुच्चलो भूरचला स्वभावतो यतो विचित्रा बत वस्तुशक्तयः। ५॥
आकृष्टिशक्तिश्च मही तया यरखस्थं गुरु स्वाभिमुखं स्वशक्या ।
आकृष्यते तपततीव भाति समे समन्तात् पतत्वियं खे ॥ ६ ॥
पूर्व लोकः सुगमः। अछष्टिशक्तिश्च महीत्यनेन भूमेरधःपतनं तत्तिर्यगधः
स्थितानां चध:पतनशङ्का निरस्ता ।।६।।
भ०डी०-ननु महेशाष्टमूर्दन्तर्गतत्वेन भूमेरन्तरिक्षावस्थानशक्तिकल्पने जलादीनामप्यन्त
रिक्षवस्थानशक्तिः कल्प्यतामित्यतो वंशस्थेनाऽऽह-यथेति ।
यथा सूयग्न्यरुष्णता. उष्णस्पर्शाधिकरणत्वम् + चो वार्थे । वा
यथा
दृष्टान्तान्तरम् । चन्द्रं शीतस्पर्शाधिकरणत्वम् । के जले द्रवत्वाधिकरणत्वम् ।
अश्मनि पाषाणे कठिनत्वम् । वायुश्चश्चक्रुः । तथा स्वभावतः स्वरूपेणैव भूमृमि
रचला स्थिरा । । ननु स्वरूपेणैवैषां तथात्वं कुत इत्यत आह--यत इति ।
यतः कारणाद्वस्तुशक्तयः पदार्थानां स्वकार्यजननसामर्थस्वरूपाः शक्तयः । वत इति
खेदे । विचित्र नानाविधाः सन्ति । एतेन वाय्वद्रवचलत्वमन. शीतस्पर्शाधिकरण-
त्वमित्यादि स्वरूपेण तत्राऽऽस्तामिति. निरस्तम् । कल्पनाया दृष्टान्तानुरुद्धत्वात् ।
तथा च वाय्वादीनां प्रत्यक्षचलत्वदिशक्त्या भूमेरचलत्वशक्तिरनुमीयत इति भावः ।
एतदस्तु भवदङ्गवताधपवेशाभ्युपगमे शक्तिः स्वभावो वा कश्यते । वस्तु
पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/३७
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
