अथोपनिन्ये गिरिशाय गौरी तपस्विने ताम्ररुचा करेण ।
विशोषितां भानुमतो मयूखैर्मन्दाकिनीपुष्करवीजमालाम् ॥६५॥
अथेति । अथ गौरी । तपोऽस्यास्तीति तपस्वी । 'अस्मायामेधास्त्रजो विनिः' (पा. ५।२।१२१) इति विनिप्रत्ययः । तस्मै तपस्विने गिरिशाय ताम्ररुचा रक्तवर्णेन करेण भानुमतोऽशुमतो मयूखैर्विशोषितां मन्दाकिन्याः पुष्कराणि पद्मानि तेषां बीजानि तेषां मालां जपमालिकामुपनिन्ये समर्पितवती ॥ ६५ ॥
प्रतिग्रहीतुं प्रणयिप्रियत्वात्रिलोचनस्तामुपचक्रमे च ।
संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ॥६६॥
प्रतिग्रहीतुमिति ॥ त्रिलोचनश्च प्रणयिप्रियत्वादर्थिप्रियत्वात्तामक्षमालां प्रतिग्रहीतुं स्वीकर्तुमुपचक्रमे । पुष्पं धनुर्यस्य स पुष्पधन्वा कामश्च । 'वा संज्ञायाम्' (पा. ५।४।१३३) इत्यनकादेशः । संमोह्यतेऽनेनेति संमोहनं नाम । नामेति प्रसिद्धौ । अमोघं बाणं सायकं धनुषि समधत्त संहितवान् ॥ ६६ ॥
हरस्तु किंचित्परिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥६७।।
हर इति ॥ हरस्तु हरोऽपि चन्द्रोदयारम्भेऽम्बुराशिरिव किंचिदीषत्परिलुप्तधैर्यः, न तु प्राकृतजनवदत्यन्तलुप्तधैर्य इति भावः। बिम्बफलतुल्योऽधरोष्ठो यस्य तस्मिन्नुमामुखे विलोचनानि व्यापारयामास, त्रिभिरपि लोचनैः साभिलाषमद्राक्षीदित्यर्थः । एतेन भगवतो रतिभावोदय उक्तः ॥ ६७ ॥
विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्वालकदम्बकल्पैः ।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥ ६८ ॥
विवृण्वतीति। शैलसुतापि स्फुरद्वालकदम्बकल्पैर्विकसकोमलनीपसदृशैः, पुलकितैरित्यर्थः । 'ईषदसमाप्तौ-' (पा. ५।३।६७) इत्यादिना कल्पप्प्रत्ययः । अङ्गैर्भावं रत्याख्यं विवृण्वती प्रकाशयन्ती चारुतरेण पर्यस्तविलोचनेन व्रीडा-
पाठा०-१ परिवृत्त.
टिप्प०--1 'कदंबो वृक्षविशेषः, अङ्गानां रोमाञ्चितत्वादत्र तत्सादृश्यम् । बालशब्देन देव्या यौवनावस्था दर्शिता' इति नारायण ।