पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/11

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
कुमारसम्भवे


लाङ्गूलविक्षेपविसर्पिशोभै
रितस्तत(१)[१]श्चन्द्रमरीचिगौरैः ।
यस्यार्थयुक्तं गिरिराजशब्दं
कुर्वन्ति वालव्यजनैश्चमर्यः ॥ १३ ॥
यत्रांशुकाक्षेपविलज्जितानां
यदृच्छया किंपुरुषाङ्गनानाम् ।

ध्वान्तम् । दिवा दिनं करोतीति दिवाकरस्तस्माद्दिवाकरात् । "दिवाविभानिशाप्रभाभास्कर" इत्यादिना टप्रत्ययः । "भीत्रार्थानां भयहेतुः" इत्यपादानत्वात् पञ्चमी । रक्षति त्रायते । ननु क्षुद्रसंरक्षणमनर्हमित्याशङ्क्याह- क्षुद्र इति । उच्चै:- शिरसामुन्नतानां शरणं प्रपन्ने शरणागते क्षुद्र नीचेऽपि सति सज्जन इव नूनं ममत्वं ममायमित्यभिमानः । अस्तीति शेषः । ममशब्दात्त्वप्रत्ययः । अर्थान्तरन्यासोऽलङ्कारः ॥ १२ ॥
     लाङ्गूलेति ॥ चमर्यो मृगीविशेषा इतस्ततो लाङ्गूलानि वालधयः । "पुच्छोऽस्त्री लोमलाङ्गूले वालहस्तश्च वालधिः" इत्यमरः । तेषां विक्षेपैर्विधूननैर्विसर्पिंण्यो विसृमराः शोभाः कान्तयो येषां तैश्चन्द्रमरीचिभिरिव गौरैः शुभ्रैः । "गौरः करीरे सिद्धार्थे शुक्ले पीतेऽरुणेऽपि च" इति यादवः । "उपमानानि सामान्यवचनैः" इति समासः । वालव्यजनैश्चामरैर्यस्य हिमाद्रेर्गिरिराजशब्दं गिरिराज इति संज्ञामर्थयुक्तमभिधेयवन्तं कुर्वन्ति । राजानो हि छत्रचामरादिचिह्निता इति भावः ॥ १३ ॥
     यत्रेति ॥ यत्र हिमाद्रौ । अंशुकाक्षेपेण वस्त्रापहरणेन विलज्जितानां किंपुरुषाङ्गनानां किंनरस्त्रीणां यदृच्छया दैवगत्या दरीगृहद्वारेषु विलम्बिम्बिम्बा लम्बमानमण्डला जलदास्तिरस्करिण्यो जवनिका भवन्ति । "प्रतिसीरा जव-


  1. चान्द्र ।