पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२५७
बालमनोरमा ।

त्वा सम्प्रसारणं पूर्वविप्रतिषेधेन' (वा ४०७८) । भृज्ज्यात्। भृज्ज्यास्ताम् । भर्क्षीष्ट्-भ्रक्षीष्ट । अभार्क्षीत्-अभ्राक्षीत् । अभर्ष्ट-अभ्रष्ट। क्षिप १२८६ प्रेरणे । क्षिपति । क्षिपते । क्षेप्ता । अक्षैप्सीत् । अक्षिप्त । कृष १२८७ विलेखने । कृषति । कृषते । क्रष्टा-कर्ष्टा । कृष्यात् । कृक्षीष्ट । 'स्पृशमृश-' (वा १८२३) इति सिज्वा । पक्षे क्स: । सिचि अम्वा । अक्राक्षीत्-अकार्क्षीत्-अकृक्षत् । तङि 'लिङ्सिचौ–' (सू २३००) इति कित्त्वादम्न । अकृष्ट । अकृक्षाताम् । अकृक्षत । अकृक्षत। अकृक्षाताम्। अकृक्षन्त । ऋषी १२८८ गतौ। परस्मैपदी । ऋषति । आनर्ष । जुषी १२८९ प्रीतिसेवनयोः । आत्मनेपदिनश्चत्वारः । जुषते । ओ विजी १२९० भयचलनयोः । प्रायेणायमुत्पूर्वः । उद्विजते ।


भृज्जेत् । ननु आशीर्लिङि भ्रस्ज् यात् इति स्थिते यासुटः कित्त्वात् 'ग्रहिज्या' इति सम्प्रसारणे पूर्वरूपे सकारस्य श्चुत्वेन शकारे शस्य जश्त्वेन जकारे भृज्ज्यात् इति रूप वक्ष्यति । तदयुक्त सम्प्रसारण बाधित्वा परत्वात् रमागमे कृते भर्ज्ज्यात् इति प्रसङ्गादित्यत आह । क्ङिति रमागममिति ॥ आशीर्लिङस्तडि सीयुटि रमागमपक्षे आह । भर्क्षीष्टेति ॥ रमभावे तु अकित्त्वात्सम्प्रसारणाभावादाह। भ्रक्षीष्टेति ॥ लुडि परस्मैपदे रमागमविकल्पं मत्वा आह। अभार्क्षीत्--अभ्राक्षीदिति ॥ आत्मनेपदे सिचि रमागमविकल्प मत्वा आह । अभर्ष्ट-अभ्रष्टेति ॥ 'झलो झलि' इति सिज्लोपः। क्षिप प्रेरणे इति ॥ अनिट् । अजन्ताकारवत्त्वाभावात् क्रादिनियमात्थलि नित्यमिट् । चिक्षेपिथ । एव कृषधातुरपि । चकर्षिथ । लुटि तासि 'अनुदात्तस्य चर्दुपधस्य' इत्यमागमविकल्प । अमागमाभावे गुणे रपरत्वम् । तदाह । क्रष्टा-कर्ष्टेति ॥ आशीर्लिङि परस्मैपदे आह । कृष्यादिति ॥ कित्त्वात् झलादित्वाभावाच्च अमागमो गुणश्च नेति भावः । आशीर्लिङस्तड्याह । कृक्षीष्टेति ॥ 'लिड्सिचौ' इति कित्त्वादमागमो गुणश्च नेति भाव । लुडि परस्मैपदे आह । स्पृशमृशेति सिज्वेति । पक्षे इति ॥ सिजभावपक्षे 'शलः' इति क्स इत्यर्थः । सिचि अम्वेति ॥ सिच्पक्षे 'अनुदात्तस्य च' इत्यमागमविकल्प इत्यर्थः । क्से तु कित्त्वादमागमो नेति भाव । अक्राक्षीदिति ॥ सिचि अमागमे रूपम्। अकार्क्षीदिति ॥ सिचि अमभावपक्षे हलन्तलक्षणावृद्धिरिति भावः । क्सादेशपक्षे आह। अकृक्षदिति ॥ कित्त्वादमागमो गुणश्च नेति भाव। तङीति ॥ तडि सिच्पक्षे अकृष् स् त इति स्थिते 'लिड्सचौ' इति कित्त्वादम् नेत्यर्थः । गुणोऽपि नेति ज्ञेयम्। अकृष्टेति ॥ 'झलो झलि' इति सिज्लोप इति भाव । अकृक्षतेति ॥ सिच्पक्षे अनतः परत्वाददादेश इति भाव.| क्सादेशपक्षे आह । अकृक्षतेति ॥ कित्त्वादम् नेति भावः । अकृक्षन्तेति ॥ क्सादेशपक्षे अ कृक्ष झ इति स्थिते अच्परकत्वाभावात् 'क्सस्याचि' इत्यकारलोपाभावादत. परत्वाददादेशाभावे अन्तादेश इति भावः । ऋषी गताविति ॥ सेट् । आनर्षिथ । आनर्षिव । अर्षिता । आर्षीत् । ओ विजी भयेति ॥ सेट् ।