पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२५३
बालमनोरमा ।

२५३० । हिनुमीना । (८-४-१५)

उपसर्गस्थान्निमित्तात्परस्य एतयोर्नस्य णः स्यात् । प्रहिणोति ।

२५३१ । हेरचङि । (७-३-५६)

अभ्यासात्परस्य हिनोतेर्हस्य कुत्वं स्यान्न तु चङि । जिघाय । पृ १२५९ प्रीतौ । पृणोति । पर्ता । स्पृ १२६० प्रीतिपालनयो: । 'प्रीतिचलनयोः' इत्यन्ये | 'चलनं जीवनम्' | इति स्वामी । स्पृणोति । पस्पार । 'स्मृ' इत्येके । स्मृणोति । पृणोत्यादयस्त्रयोऽपि छान्दसा इत्याहुः । आप्लृ १२६१ व्याप्तौ । आप्नोति । आप्नुतुः । आप्नुवन्ति । आप्नुवः ।आप्ता । आप्नुहि । । लृदित्त्वादङ् । आपत् । शक्लृ १२६२ शक्तौ । अशकत् । राध १२६३ साध १२६४ संसिद्धौ । राध्नोति ।

२५३२ । राधो हिंसायाम् । (६-४-१२३)

एत्त्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च । अपरेधतुः । रेधुः । रेधिथ । राद्धा । साध्नोति । साद्धा । असात्सीत् । असाद्धाम् ।

अथ द्वावनुदात्तेतौ । अशू १२६५ व्याप्तौ सङ्घाते च । अश्नुते ।


मीना ॥ हिनु मीना अनयोर्द्वन्द्वात्षष्ठीद्विवचनस्य आर्षो लुक् । 'रषाभ्यान्नो ण' इत्यनुवर्तते । 'उपसर्गादसमासेऽपि' इत्यत उपसर्गादिति च । तदाह । उपसर्गस्थादिति ॥ हेरचङि ॥ 'चजो' इति सूत्रात् कुग्रहणमनुवर्तते । 'अभ्यासाच्च' इत्यत । अभ्यासादिति ॥ 'हो हन्ते' इत्यत ह इति षष्ठ्यन्तमनुवर्तते । तदाह । अभ्यासात्परस्येति ॥ जिघायेति ॥ जिघ्यतुः । जिघयिथ-जिघेथ । जिघ्यिव । आप्लृ व्याप्तौ । अनिट् । आप्नुवन्तीति ॥ सयोगपूर्वकत्वात् 'हुश्नुवो' इति न यण् । आन्पुवः इति ॥ सयोगपूर्वकत्वात् 'उतश्चप्रत्ययात्' इति नोकारलोपविकल्प.। आप्नुहीति ॥ सयोगपूर्वकत्वादेव 'उतश्च प्रत्ययात्' इति हेर्न लुक् । शक्लृ शक्ताविति ॥ शक्नोति । शशाक । शेकतु । शशक्थ-शेकिथ । शेकिव । शक्ता । शक्ष्यति । अशकदिति ॥ लृदित्त्वादड् । राध साध ससिद्धौ । अनिटौ । दीर्घकारवत्त्वात् 'अत एकहल्' इत्यप्राप्तावाह । राधो हिंसायाम् ॥ 'घ्वसो' इत्यत एदिति अभ्यासलोप इति च अनुवर्तते । 'गमहन' इत्यतः कितीति । 'अत एकहल्मव्द्ये' इत्यत लिटीति 'थलि च सेटि' इति च सूत्रमनुवर्तते । तदाह । एत्त्वेत्यादिना । अपरेधतुरिति ॥ उपसर्गवशादिह हिसाया वृत्ति । अन्यत्र रराधतुः । थल्यपि क्रादिनियमान्नित्यमिट् । 'उपदेशेऽत्वत' इत्यत्र तपरकरणादिह नेण्निषेधः । तदाह । रेधिथेति । राद्धेति ॥ 'झषस्तथो' इति ध.। अशू व्याप्ताविति ॥ ऊदित्त्वाद्वेट् । अश्नुते इति ॥ अश्नुवाते ।