पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२५१
बालमनोरमा ।

माता । मीयात् । मासीष्ट । अमासीत् । अमासिष्टाम् । अमास्त । चिञ् १२५२ चयने । प्रणिचिनोति ।

२५२५ । विभाषा चेः । (७-३-५८)

अभ्यासात्परस्य चिञः कुत्वं वा स्यात्सनि लिटि च । प्रणिचिकाय-चिचाय । चिक्ये-चिच्ये । अचैषीत्। अचेष्ट । स्तृञ् १२५३ आच्छादने । स्तृणोति । स्तृणुते । 'गुणोऽर्ति–' (सू २३८०) इति गुणः । स्तर्यात् ।

२५२६ । ऋतश्च संयोगादेः । (७-२-४३)

ऋदन्तात्संयोगादेः परयोर्लिङ्सिचोरिड्वास्यात्तङि । स्तरिषीष्ट-स्तृषीष्ट । अस्तरिष्ट-अस्तृत । कृञ् १२५४ हिंसायाम् । कृणोति । कृणुते । चकार । चकर्थ । चक्रे । क्रियात् । कृषीष्ट। अकार्षीत् । अकृत । वृञ् १२५५ वरणे ।


कित्त्वादेज्विषयत्वाभावादात्त्वाभावे 'अकृत्सार्व' इति दीर्घ इति भाव. । आशीर्लिङि तडि आह । मासीष्टति ॥ एज्विषयत्वादात्त्वमिति भाव । लुडि परस्मैपदे सिचि आत्त्वे 'यमरम' इति सगिटौ मत्वा आह । अमासीदिति ॥ सकि सिच इटि सिज्लोपः । अमास्तेति ॥ लुडि तडि सिचि आत्त्वमिति भाव । अमासाताम् । अमासत इत्यादि । चिञ् चयने इति ॥ चयन रचना । अनिट् । सार्वधातुके षुञ्वद्रूपाणि । प्रणिचिनोतीति ॥ 'नेर्गद' इति णत्वमिति भाव । विभाषा चेः ॥ 'चजो कु घिण्ण्यतोः' इत्यतः कुग्रहणमनुवर्तते । 'अभ्यासाच्च' इत्यत अभ्यासादिति । 'सन्लिटोर्जेः' इत्यतः सन्लिटोरिति च । तदाह । अभ्यासादित्यादिना । स्तृञ् आच्छादने इति ॥ अनिट् । लिटि तस्तार । अतुसादौ 'ॠतश्च सयोगादेर्गुणः' इति गुण. । वृद्धिविषये तु नास्य प्रवृत्तिः । तस्तरतु । ॠदन्तत्वात्थल्यपि नित्य नेट् । तस्तर्थ । तस्तरिव । तस्तरे । तस्तराते । तस्तरिरे । तस्तरिषे । तस्तरिवहे | स्तर्ता । 'ॠद्धनो. स्ये' स्तरिष्यति । आशीर्लिङि परस्मैपदे यासुट कित्त्वाद्गुणनिषेधे प्राप्ते आह । गुणोऽर्तीति गुणः इति ॥ तडि आशीर्लिङि स्तृ षीष्ट इति स्थिते । ऋतश्च संयोगादेः ॥ 'लिङ्सिचोरात्मनेपदेषु' इत्यनुवर्तते । 'इट् सनि वा’ इत्यत इड्वेति । तदाह । ऋदन्तादित्यादिना ॥ लुडि परस्मैपदे अस्तार्षीत् । लुडस्तडि त्वाह । अस्तरिष्ट-अस्तृतेति ॥ 'ॠतश्च सयोगादेः' इति इट्पक्षे गुणः । इडभावपक्षे तु 'ह्रस्वादङ्गात्' इति सिचो लोप । कृञ् हिसायाम् । चकर्थेति ॥ 'कृसृभृवृ' इति थल्यपि नित्यमिण्निषेधः । चकृव । क्रियादिति ॥ आशीर्लिङि 'रिड् शय ग्लिड्क्ष्वु' इति रिड् । कृषीष्टति ॥ 'उश्च' इति कित्त्वान्न गुणः । अकार्षीदिति ॥ सिचि वृद्धि. रपरत्वम् । अकृतेति ॥ 'ह्रस्वादङ्गात्' इति सिचो लोपः । वृञ् वरणे । सेट् ।