पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२४७
बालमनोरमा ।

अयं दाहे पठितः । अर्थभेदेन त्वङर्थं पुनः पठ्यते । अव्युषत् । ओष्ठ्यादिर्दन्त्यान्त्योऽयम् 'व्युसति' इत्यन्ये । अयकार: 'बुस' इत्यपरे । प्लुष १२१७ दाहे । अप्लुषत् । पूर्वत्र पाठः सिजर्थ इत्याहुः । तद्भ्वादिपाठेन गतार्थमिति सुवचम् । विस १२१८ प्रेरणे । विस्यति । अविसत् । कुस १२१९ संश्लेषणे । अकुसत् । वुस १२२० उत्सर्गे । मुस १२२१ खण्डने । मसी १२२२ परिणामे । परिणामो विकारः । 'समी' इत्येके । लुठ १२२३ विलोडने । उच १२२४ समवाये । उच्यति । उवोच । ऊचतुः । मा भवानुचत् । भृशु १२२५ भ्रंशु १२२६ अधःपतने । बभर्श । अभृशत् । 'अनिदिताम्--' (सू ४८५) इति नलोपः । भ्रश्यति । अभ्रशत् । वृश १२२७ वरणे । वृश्यति । अवृशत् । कृश १२२८ तनूकरणे। कृश्यति । ञि तृषा १२२९ पिपासायाम् । हृष १२३० तुष्टौ । श्यन्नङौ भौवादिकाद्विशेषः । रुष १२३१ रिष १२३२ हिंसायाम् । 'तीषसह--' (सू २३४०) इति वेट् । रोषिता-रोष्टा । रेषिता--रेष्टा । डिप १२३३ क्षेपे । कुप १२३४ क्रोधे । गुप १२३५ व्याकुलत्वे । युप १२३६ रुप १२३७ लुप १२३८ विमोहने । युप्यति । रुप्यति । लु-


श्यनः प्राप्तौ द्वितीयसूत्रम् । व्युष विभागे । अयमिति ॥ दिवादिगण एव पुषादिभ्य प्रागय धातुः पठित इत्यर्थः । पौनरुक्तयमाशङ्क्य आह । अर्थभेदेन त्वङर्थं पुनः पठ्यते इति ॥ विभागात्मके अर्थविशेषे एव पुषाद्यडर्थमिह पुन पाठ इत्यर्थ । अव्युषदिति ॥ 'व्युष दाहे' इति पूर्व पठितस्य तु सिजेव । अव्योषीत् । ओष्ठ्यादिरिति ॥ दन्त्योष्ठ्यादिर्दन्त्योष्मान्तोऽयमिति केचिन्मन्यन्ते इत्यर्थः । अयकारः इति ॥ दन्तोष्ठ्यादिर्दन्त्योष्मान्तो यो धातुरुक्तः स एवाय यकाररहित इत्यन्ये मन्यन्ते इत्यर्थः । अयकारमिति पाठे क्रियाविशेषणम् । प्लुष दाहे । ननु दिवादिगणे परस्मैपदिषु पुषादिभ्यः प्राक् अस्य पाठः क्वचिद्दृश्यते । तत्र पौनरुक्त्यशङ्का परिहरति । पूर्वत्र पाठस्सिजर्थः इति ॥ पुषादावेव पाठे सति अडेव श्रूयेत नतु सिच् । पुषादेः प्रागपि पाठे तु तस्य अडभावात् सिच् श्रूयेत । तथाच सिच. कदाचित् श्रवणार्थ पूर्व पाठ इत्यर्थः। आहुरित्यस्वरसोद्भावनम् । तद्बीज दर्शयति । तभ्द्वादीति ॥ तत् दिवादिगणे पुषादिभ्य पूर्वमस्य पठन भ्वादिपाठेनैव सम्पन्नप्रयोजकमिति सुष्ठु वक्तु शक्यमित्यर्थः । एवञ्च भ्वादिपाठात् शब्विकरण लुडि सिचः श्रवणञ्च सिद्धयति । पुषादौ पाठात्तु श्यन्विकरणः अड् च सिध्यति । अतः दिवादिगणे पुषादिभ्य प्रागस्य पाठो व्यर्थ एवेति भावः । एतदेवाभिप्रेत्य मूले दिवादिाणे पुषादिगणात् प्राक् प्लुष दाहे इति न पठितामिति बोध्द्यम् । मसी परिणामे इति ॥ ईदित्त्वं 'श्वीदित' इत्येतदर्थम् । मस्यति । समी इत्येके इति ॥ सम्यति । भृशु भ्रशु अधःपतने । द्वितीयधातोराह । अनिदितामिति ॥ युप रुप लुप विमोहने इति ॥ धातुवृत्त्यादिविरोधा-