पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[भ्वादि
सिध्दान्तकौमुदीसहिता
२१५३ । लस्य । (३-४-७७)

अधिकारोऽयम् ।

२१५४ । तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । (३-४-७८)
 

एतेऽष्टदश लादेशाः स्युः ।

२१५५ । लः परस्मैपदम् । (१-४-९९)

लादेशाः परस्मैपदसंज्ञाः स्युः ।

२१५६ । तङानावात्मनेपदम् । (१-४-१००)

तङ् प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः । पूर्वसंज्ञापवादः ।

तत्वात् । तदाह । लकारास्सकर्मकेभ्यो धातुभ्यः कर्मणि कर्तरि च स्युरिति ॥ एवञ्च सकर्मकेभ्यो भावे लकारा न भवन्ति । सकर्मकेभ्योऽपि भावलकारप्रवृत्तौ तु देवदत्तेन घट क्रियत इत्यादो भावलकारेण कर्मणोऽनभिहितत्वात् द्वितीया स्यादिति भावः । भावे चाकर्मकेभ्य इति द्वितीयं वाक्यम् । अत्रापि चकारेण कर्तैवानुकृष्यते । न तु कर्म । असम्भवात् । तदाह । अकर्मकेभ्यो भावे कर्तरिचेति ॥ अत्राकर्मकग्रहणेन अविवक्षितकर्मका अपि गृह्यन्ते । तेन देवदत्तेन भुज्यत इत्यत्र सतोऽप्योदनरूपकर्मणः अविवक्षाया भावे लकारोऽस्त्येवेत्यन्यत्र विस्तरः । लस्येति ॥ धातोरित्यधिकृतम् । अकारो न विवक्षितः । तेन लिङादानामपि सग्रहः । चूडाल इत्यादौ च नातिप्रसङ्गः । तिप्तसिति ॥ तिप्, तम्, झि, सिप्, थम्, थ, मिप, वस, मस्, त, आताम्, झ, थास, आथाम्, ध्वम्, इट, वहि, महिङ् । एषां समाहारद्वन्द्वात् प्रथमैकवचनम् । लस्येति स्थानषष्ठ्यन्तमधिकृतम् । तेन आदेश इति लभ्यते । फलितमाह । एत इति ॥ तसादौ रुत्वाभाव आर्षः । तिबादौ पकारानुबन्धप्रयोजनन्तु द्वेष्टीत्यादौ सार्वधातुकमपिदिति डित्वनिवृत्यर्थम् । तदुदाहरणेषु स्पष्टीभविष्यति । ल इति ॥ ल इति स्थानषष्ठी । आदेश इत्यद्ध्याहार्यम् । तदाह । लादेशा इति । तङिति ॥ तङ्च आनश्चेति द्वन्द्वः । प्रत्याहार इति ॥ त आतामिति तशब्दमारभ्य महिडिति डकारेणेति शेषः । तदाह । तादिनवकमिति ॥ इह पूर्वसूत्राल्ल इत्यनुवर्तते । ततश्च आनप्रहणेन शानच् कानचावेव गृह्येते । न तु ताच्छील्यवयोवचनशक्तिषु चानशिति बिहितश्चानशपि । तस्य लादेशत्वाभावात् । तेन परस्मैपदिभ्योऽपि चानश् सिध्द्यति । निघ्नाना इत्यादौ । तदाह । शानच् कानचौ चेति । एतत्संशा इति ॥ आत्मनेपदसज्ञाका इत्यर्थहः । पूर्वसंज्ञेति ॥ परस्मैपदसज्ञापवाद इत्यर्थः । एवञ्च तिबादिनवके परस्मैपदसज्ञा