पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिविम्बडम्बरैः कुलाचलैः अपि प्रणम्यमाना इव रराज । दुःखेन प्रकर्षेण सोढुं शक्येन दुष्प्रसहेन दुर्धर्षेण सोढुमशक्येन वा तेजसा दीप्त्या 'तेजः प्रभावे दीप्तौ च नले शुक्रेऽप्यतस्त्रिषु' इत्यमरः । अलङकृता विभूषिता सा राज्ञी रत्नमयीषु रत्ननिर्मितासु भूमिषु स्थानेषु कुट्टिमेष्वित्यर्थः । महागृहाणां प्रासादानां प्रतिबिम्बस्य प्रतिच्छायाया डम्बरैरारोपैः कुलाचलै स्सप्तभिः कुलपर्वतैरपि “महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ।।” प्रणभ्यमानेव वन्द्यमानेव रराज शुशुभे । विशालाकारत्वात्प्रासादप्रतिबिम्बेषु कुलपर्वतत्वारोपः । अत्रोत्प्रेक्षालङ्कारः । भाषा अत्यधिक तेज से विभूषित वह रानी, रत्नों से निर्मित फरसों पर बड़े २ महलों की परछाही पड़ने से मानीं सात कुलपर्वतों से भी प्रणमित हो रही हो, ऐसी शोभित हो रही थी । अर्थात् महलों की परछाहीं मानों पर्वत थे जो उसके चरणों पर पड रहे थे । कलत्रमूवीतिलकस्य मेखला-कलापमाणिक्यमरीचिभिर्दधे । उदेष्यतः सूर्यसमस्य तेजसः समुद्गतं बालमिवातपं पुरः ॥७२॥ अन्वयः ऊव्रीतिलकस्य कलत्रं मेखलाकलापमाणिक्यमरीचिभिः उदेष्यतः सूर्यसमस्य तेजसः पुरः समुद्गगतं बालम् आतपम् इव दधे ।