पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गर्भ के बोझ से धीरे २ चलने वाली, मृग के समान बड़ी २ आखों वाली रानी, मानों यह सोच कर कि पृथ्वी का बोझ कम करने के लिये शरीर धारण करने वाला मेरा गर्भस्थ कुमार, मुझ से पृथ्वी का बोझ द्वारा पीड़ित होना कैसे सहन करेगा, पृथ्वी पर धीरे २ पावों को डालती थी । (गर्भिणी स्त्रियाँ प्रायः धीरे २ ही चला करती हैं ।) सशब्दकाञ्चीमणिबिम्बितैर्बभौ सखीजनैः साद्रुतगर्भधारिणी । उपास्यमाना कुलदेवतागणैः समन्ततो यामिकतां गतैरिव ॥७०॥ ऋन्वयः अद्रुतगर्भधारिणी सा सशब्दकाञ्चीमणिबिम्बितैः सखीजनैः समन्ततः यामिकतां गतैः कुलदेवतागणैः इव उपास्यमाना बभौ । व्याख्या अद्भुतरचासौ गर्भरच तं धारयतीत्यद्भुतगर्भधारिण्याऽऽश्चर्यशांसिगर्भ धारिणी सा राज्ञी शब्देन सहिता सशब्दा, सशब्दा चाऽसौ काञ्ची रशना तस्यां समुद्भग्रन्थिता मणयस्तासु प्रतिबिम्बितैः प्रतिफलितैः ‘रत्नं मणिर्द्धयोरश्मजातौ मुक्तादिकेऽपि च' इत्यमरः । सखीजनैः समन्ततश्चतुर्दिक्षु यामिकतां प्राहरिकतां गतैः संप्राप्तैः कुलस्य वंशस्य देवतागणैरिष्टदेवतासमूहैरिवोपास्यमाना संसेव्य माना बभौ शुशुभे । यथा प्राहरिकाः सशब्दं परितो गत्वा स्वकार्य कुर्वन्ति तथैव सशव्दरशानागतमणि-प्रतिबिम्बित-सखीगणरूप-कुलदेवतागणैः समन्तत: प्राहरिककार्य क्रियत इति भावः । उत्प्रेक्षालङ्कारः । भाषा