पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १८ ] श्रीमद्रोविन्दराजीयव्यांख्यासमलंकृतम् । ७९ [ बाष्पसंरुद्धकण्ठस्तु वाली सार्तस्वरं शनैः ॥ उवाच रामं संप्रेक्ष्य पङ्कलग्र इव द्विपः ॥ ५१ ।।] न त्वात्मानमहं शोचे न तारां नै च बान्धवान् । यथा पुत्रं गुणश्रेष्ठमङ्गदं कनकाङ्गदम् ।। ५२ ।। स ममादर्शनाद्दीनो बाल्यात्प्रभृति लालितः ॥ तटाक इव पीताम्बुरुपशोषं गमिष्यति ॥ ५३ ॥ बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः ॥ तारेयो राम भवता रक्षणीयो मैहाबलः ॥ ५४ ॥ सुग्रीवे चाङ्गदे चैव विधत्ख मतिमुत्तमाम्। त्वं हि शास्ताच गोप्ता च कार्याकार्यविधौ स्थितः ॥५५॥ या ते नरपते वृत्तिर्भरते लक्ष्मणे च या । सुग्रीवे चाङ्गदे राजंस्तां त्वमाधातुमर्हसि ॥ ५६ ।। मद्दोषकृतदोषां तां यथा तारां तपखिनीम् ॥ सुग्रीवो नवमन्येत तथाऽवस्थातुमर्हसि ।। ५७ ।। त्वया ह्यनुगृहीतेन राज्यं शक्यमुपासितुम् । त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना ॥ ५८ ॥ शक्यं दिवं चार्जयितुं वसुधां चापि शैसितुम् ।। ५९ ॥ वत्तोऽहं वधमाकाङ्कन्वार्यमाणोपि तारया ॥ सुग्रीवेण सह भ्रात्रा द्वन्द्वयुद्धमुपागतः ।। ६० ।। इत्युक्त्वा सैन्नतो रामं विरराम हरीश्वरः ।। ६१ ।। स तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम् ।। सौमसंपन्नया वाचा धर्मतत्त्वार्थयुक्तया ।। ६२ ।। न संतापस्त्वया कार्य एतदर्थे एवङ्गम ॥ ६३ ॥ न वयं भवता चिन्त्या नौप्यात्मा हरिसत्तम । वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः ॥ ६४ ॥ वाचा परिपालय सर्व मया क्षान्तमितिवदेत्यर्थः | व्यवस्थापयितुं ।। ५७ । उपासितुं मयेतिशेषः । न ५०-५१ । कार्यान्तरमप्यर्थयते--न त्वित्यादि-| केवलं मद्राज्यं । अन्यचेत्याह-शक्यमिति ॥ ५८ ना । नात्मानंप्रतिशोचे त्वयाद्त्तसम्यग्गतिकत्वात् । | –५९ । तर्हि तथा किं न कृतं तत्राह-त्वत्त नापि तारादिकान्प्रति सुग्रीवस्यविद्यमानत्वात् । पुत्रं| इति । आकाङ्कन् आकाङ्कमाण इवेत्यर्थः ॥६०-६१॥ अङ्गादङ्गात्संभवसि ?' इत्युक्तरीत्या स्वानतिरिक्त ।| व्यक्तदर्शनं विशद्ज्ञानं । साम सान्त्वनं ।। ६२ ।। गुणश्रेष्ठं पितृशुश्रूषादिगुणै: श्रेष्ठं । कनकाङ्गदं दर्शनी-| एतदर्थ पुत्रपालनार्थ ॥ ६३ ॥ वयं न चिन्त्या यमित्यर्थः ।। । मतिं तुल्यामितिशेषः | अकृत्यकारिण इतिशेषः । नाप्यात्मा निवृत्तपापत्वात् । ५२-५४ ।। ५५ । वृत्तिः प्रीतिरिति यावत् ।। ५६ ॥| कुत इत्यत्राह-वयमिति । भवद्विशेषेण भवतो नावमन्येत पुत्रनिर्वासनेनेति भावः । अवस्थातुं | कृत्यरूपविशेषेण हेतुना । धर्मतः प्रायश्चित्तरूपे धर्मे । क्रान्तपुरस्कृतस्तं ॥ ५० ॥ ति० उवाच पुत्रादिमायाकृष्टस्सत्रुवाचेल्यर्थ ॥ ५१ ॥ वि० पीतांबुः सस्याद्युपयोजितांबुः ॥ शि० पीतांबुः सूर्यकिरणशोषितजलः ॥ ५३ ॥ ति० मतिमुत्तमां । “मरणान्तानिवैराणि ' इतिन्यायेनेतिभावः । सुग्री वेचतत्रैवेत्यर्थः । भ्रातृन्नेहोद्वोधेनवातत्राप्यनुग्रहप्रार्थनं । कार्यविधौगोप्ता अकार्यविधौशास्ता ॥ ५५ ॥ ती० मद्दोषकृतदो षां सुग्रीवायमत्कृतापराधेनकृतापराधां । अवस्थातुं अवस्थापयितुं ॥ ५७ ॥ ति० शक्यमिति । खाराज्यमपित्वत्प्रसादलभ्य मितिभावः ॥ ५९ ॥ अहंत्वदुपदेशतस्त्वद्दर्शनतश्चेदानींक्षीणपापस्त्वत्तोवधं उत्तमलोकराज्यफलकं आकांक्षन् अपेक्षमाणः । इदानीमस्मि । अतस्तारयावार्यमाणोपि यद्भात्रायुद्धमुपागतः तत्पूर्वकृतपुण्यपरिपाकेनेतिशेषः । शि० ननुतवेच्छाचेत्वांजीवया मिराज्यंकुर्वित्यत आह--त्वत्तइति । एतेनवालिनोजीवनेच्छाभावस्सूचित ॥ ६० ॥ ती० व्यक्तदर्शनं अभिव्यक्तसर्वे धरखरूपज्ञानं ॥ ६२ ॥ ती० वयंभवतानचिन्त्याः नविचार्याः । पराङ्मुखस्यमेवधंप्रच्छन्नकृत्वा एषपापमार्जितवान् उतपुण्य मितिभवतानविचार्याइत्यर्थः । नाप्यात्माचिन्त्यः भ्रातृभार्याहरणादिकंकृत्वागतोहंकिंभविष्यदिति त्वंच त्वयानविचार्यः । कुत वयं भवद्विशेषेण भवतोविशेषेण । धर्मतः धर्मे । कृतनिश्चयाः । अस्यवधःकिंधर्म:उताधर्मइतिविशेषेणविचार्यधर्मेनिश्चयंकृतवन्त [ पा० ] १ अयंश्लोकः. ड. छ. झ. ट. पुस्तकेषु दृश्यते. २ छ. झ. ट. नचात्मानं. ३ क. ग. छ.-ट. नापि. ४ टुः .--ट गुणज्येष्ठं. ५ झ. रुदशोषं. ६ ग. महाबल. ७ छ. झ. ट. गोप्ताचशास्ताच ८ ग. घ. वृत्तिर्लक्ष्मणेभरतेचया. ९ क. ग ड. च.ज.-ट. तांचिन्तयितुमर्हसि. १० ख. नाभिमन्येत. ११ ग. ड.-ट. शक्यंराज्यं. १२ ग. शाश्वतीं. १३ छ. झ. ज ट. वानरो. १४ क. व्यक्तविक्रमं. ख. व्यक्तदर्शनः. १५ ड -ट, साधुसंमतया. १६ क. धर्महेत्वर्थयुक्तया. १७ ख. नापित्वं .