पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १८ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम् । उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम् ।। २ ।। धमोथेगुणसंपनं हरीश्वरमनुत्तमम् । अधिक्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत् ।। ३ ।। धर्ममर्थ च कामं च समयं चापि लौकिकम् । अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे ॥ ४ ॥ अपृष्टा बुद्धिंसंपन्नान्वृद्धानाचार्यसंमतान् । सौम्य वानरचापल्यात्किं मां वतुमिहेच्छसि ॥ ५ ॥ इक्ष्वाकूणामियं भूमिः सशैलवनकानना । मृगपक्षिमनुष्याणां निग्रहप्रग्रहावपि ।। ६ ।। तां पालयति धर्मात्मा भरतः सत्यवागृजुः । धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः ।। ७ ।। नयश्च विनयश्चोभौ यस्मिन्सत्यं च सुस्थितम् । विक्रमश्च यथादृष्टः स राजा देशकालवित् ॥ ८ ॥ तैस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः ॥ चरामो वसुधां कृत्स्रां धर्मसैन्तानमिच्छवः ।। ९ ।। तस्मिनृपतिशार्दूले भरते धर्मवत्सले ॥ पालयत्यखिलां भूमिं कश्चरेद्धर्मनिंग्रहम् ॥ १० ॥ ते वयं धैर्मविभ्रष्टं खधर्मे परमे स्थिताः । भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि ।। ११ ।।

७३ वालिना इत्युक्त इत्यन्वयः । विचेतसेत्यनेन परुषव-|तां भूमेिं ॥ ७ ॥ नयो नीतिः । विनयः शिक्षा । चनमज्ञानकृतमित्युच्यते ॥ १ ॥ तमित्यादि द्वौ ॥ | तावुभौ सत्यं च यथादृष्टः शास्रविहितः विक्रमश्च । तदा पूर्व। अधिक्षिप्तो रामः धर्मार्थगुणसंपन्न अनुत्तमं | एतत्सर्वं यस्मिन्सुस्थितं देशकालवित् स भरतो राजे यथाभवतितथा पश्चाद्वालिनमब्रवीदिति योजना |तियोजना ।। ८ । धर्मकृतादेशाः धर्मकृतनियोगाः । ॥२-३॥ समयं आचारं । “समयाः शपथाचा- | कथं कनिष्ठन ज्येष्ठनियोग इत्यपेक्षायां राजधमयमि रकालसिद्धान्तसंविदः' इत्यमरः । बाल्यात् अज्ञा- | त्याशयेनोत्तं धर्मपदं । धर्मसन्तानं धर्मवृद्धिं । यद्यपि नात् ।। ४ । अपृष्टा धर्मादिकमितिशेषः । वानर : | भरतेन नादेश: कृत: तथापि नेद्मसत्यं । यथाकथं चापल्यात् वानरत्वकृतचापल्यात् ॥ ५ ॥ इय चिद्भरतन राज्यभरणस्य स्वीकृतत्वात्तद्न्येषां तत्कु जम्बूद्वीपात्मिका । लोके कस्यचिद्भमेः स्वत्वेपि शैलवनादिकमाक्रम्यान्ये भूमिं पीडयन्ति तव्यावृत्य लीनानां तदादिष्टत्वं सिद्धमिति हृद्यं । अत एवायो र्थमाह-सशैलेति । काननं महारण्यं । मृगादिनिग्र- ध्याकाण्डे दर्शितं—त्वं ॥ राजेतेि ९ । धर्मनिग्रहं हानुग्रहावपि इक्ष्वाकूणामेव । कृत्यमिति शेषः ।। ६ ॥ | धर्महानिं ॥ १० ॥ धर्मविभ्रष्टं जनमितिशेषः ॥ ११ ॥ यमाशयः । यद्यपिवालिनोवाणीराममस्तौषीत् । वालीतंरामंपरुषमुक्तवानितिकृखा वालिनाराम:परुषमुक्तइत्याद्युक्तिः । अतएवश्री रामोपिवालिपरुषोक्तिमनुसृत्यैवोत्तरंवक्ति “ धर्ममर्थचकामंच ? इत्यादिना ॥ ति० प्रश्रितं प्रश्रयाभासोपेतं । एवंधमोर्थसहित खंचाभासरूपमेव । तत्र “ मामेवयदिपूर्व ?” इत्यादिहिताभासोर्थाभासश्च । धर्माभासोराजहेत्यादि । परुषखंतुमुख्यमेव । निह तेनविरुद्धेन । स० निहतेन बाणेनेल्यर्थः ॥ १ ॥ शि० अनुत्तमं अनुजदारग्रहणरूपाधर्मकर्मणाऽधमं ॥ ३ ॥ तनि० धर्म वैदिकपुरुषार्थे । लौकिकंसभयं लौकिकाचारं । तेनद्वयोरेकभार्यत्वेपिमाससंवत्सरादिप्रतिनियतकालसंकेतः ॥ ४ ॥ तनि० विष येवापुरेवातेकलहनिमित्तंनास्तीत्यस्योत्तरं । खदुपभुक्तवनगिर्युपवनपत्तनान्यस्मदीयानिनभवन्तिकिं । ज्ञातिभावोप्यस्ति । “त्वंव यस्यश्चहृद्योमे ?” “ एकंदुःखंसुखंचनौ ?' इतिसुग्रीवसखस्यममभवान्ज्ञातिर्नभवतिकिं । “ तेनाहंप्रतिषिद्धश्वहृतदारश्चराघव इतितेनमांप्रतिनोक्तंकिं । “ वस्त्रेणैकेनवानरः ” इत्युक्तरीत्याएकवस्रस्सननिर्वासितःकिं । सुग्रीवगृहदारभूजलादिकंत्वयानगृही तंकिं । स्त्रीविवादश्च “ भ्रातुर्वर्तसिभार्यायां ?' इत्यनेनदर्शितः ॥ ६ ॥ तनि० ममतवचपरस्परज्ञानंपरिचयश्चनास्ति । ममगृह मागल्यानपराधिनंहतवानसीत्यस्योत्तरमाह । “ ?' “ कामतन्त्रप्रधानश्चनस्थितोराजवत्र्मनि। तांपालयतिधर्मात्मा इत्यारभ्य इत्यन्तं । त्वंसापराधएवेत्यर्थ ति० यथादृष्टः अपरोक्षानुभवसिद्धः । सराजा अस्मिन्काले । सर्वभूमेरितिशेषः ॥ स० यथादृष्टः शास्त्रेक्षत्रियस्ययोविक्रमोदृष्टस्संइत्यर्थः ॥ ८ ॥ ती० धर्मकृतादेशाः धर्मइत्यधर्मस्याप्युपलक्षणं । धर्माधर्मकृतनियोगा [ पा० ] १ ख. न्मांधर्षयितुमिच्छसि. २ क. ग. संपन्नानाचार्यान्धर्मसंहितान्, ३ ड. च. ज. अ. नाचारसंमतान ४ क. ख. ग. ड.–ट. चापल्यात्वं. ५ ड. च. छ. झ. अ. ट. निग्रहानुग्रहेष्वपि. क. निग्रहप्रग्रहेष्वपि. ज. निग्रहानुग्रहावपि ६ ड. च. भरतस्यकृतादेशाः. ७ ख. धर्मसंस्थानं. ८ झ. यस्मिन्. ९ क. ख. सत्यविक्रमे. १० ड .-ट, पृथ्वीं. ११ ड-ट विप्रियं , १२ च. ज. नवयंमार्गविभ्रष्टा . १३ क. ख. ग. छ. झ. अ. ट, मार्गविभ्रष्ट. १४ ड.-ट. चिन्तयामो वा. रा. १२९