पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । {{ [ किष्किन्धाकाण्डम् ४ वाली दंष्ट्राकरालस्तु क्रोधाद्दीप्तान्निसन्निभः ॥ भात्युत्पतितपद्माभः समृणाल इव हदः ।। ४ ।। शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः ॥ वेगेन चरणन्यासैर्दारयन्निव मेदिनीम् ॥ ५ ॥ तं तु तारा परिष्वज्य खेहाद्दर्शितसौहृदा ॥ उवाच त्रैस्तसंभ्रान्ता हितोदकैमिदं वचः ।। ६ ।। साधु क्रोधमिमं वीर नदीवेगमिवागतम् । शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम् ॥ ७ ॥ काल्यमेतेन संग्रामं करिष्यसि च वानर । वीर ते शत्रुबाहुल्यं फल्गुता वा न विद्यते ।। ८ ।। सहसा तव निष्क्रामो मम तावन्न रोचते ॥ श्रूयतां चाभिधास्यामि यन्निमित्तं निवार्यसे ।। ९ ।। पूर्वमापतितः क्रोधात्स त्वामाह्वयते युधि । निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः ॥ १०॥ त्वया तस्य निरस्तस्य पीडितस्य विशेषतः । इदैत्य पुनराह्वानं शङ्कां जनयतीव मे ॥ ११ ॥ दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः । निनादश्चापि संरम्भो नैतदुल्पं हेि कारणम् ॥ १२ ॥ नासहायमहं मन्ये सुग्रीवं तमिहागतम् । अवष्टब्धसहायश्च यैमाश्रित्यैष गर्जति ॥ १३ ॥ प्रकृत्या निपुणचैव बुद्धिमांश्चैव वानरः । अपरीक्षितवीर्येण सुग्रीवः संह नैष्यति ॥ १४ ॥ रक्तो राहुप्रस्तो वा ॥ ३ । दंष्ट्राकराल: दंष्ट्रादन्तुरः । |मचैवनिर्गच्छसीत्यर्थः ।। ८ ॥ सहसानिर्गमे कोदोष “करालोदन्तुरेतुङ्गे ? इत्यमरः । क्रोधाद्धेतोः दीप्ता- | इत्यत्राह-सहसेति ॥ ९ ॥ प्रथमं युक्तिमाह-पूर्व निसन्निभः अतएवोत्पतिपद्म: विकसितरक्तोत्पलः । | मेित्यादिश्लोकद्वयमेकान्वयं । पूर्वमापतितः ते त्वया। उत्पतितपद्माभइतिपाठे उत्पतिता स्वोपरिप्रसृता पद्मा- | क्रोधान्निष्पत्य योयुधि निरस्तः । हन्यमानो दिशो नामाभा यस्मिन्स इत्यर्थः । समृणाली हृद् इव भाति | गतश्च । सत्वामाह्वयते । पुनरेत्य स्थितस्य तयैतदा बभैौ ।। ४-५ ॥ परिष्वज्य खवचनश्रवणाभिमुख्या- | ह्वानं । मेशङ्कां सहायसहितत्वशङ्कांजनयतीतियो यालिङ्गय । रुन्नेहात् परिष्वज्येत्यन्वयः । दर्शितसौ- | जना । इवशब्दो वाक्यालंकारे । अव्ययानामनेका हृदा यथाभवति तथोवाचेत्यर्थः । संभ्रान्ता त्वरिता । |र्थत्वाद्वधारणे वा ॥ १०-११ । अवधारणे हेत्व संभ्रमस्त्वरा ?' इत्यमरः । हितोदकै हितफलकं | न्तरमप्याह-दर्पश्चेति । नर्दतस्तस्य दर्पश्च व्यवसा ॥ ६ ॥ काल्यं प्रातः शयनादुत्थितः पुरुषः भुक्तां | यश्च यन्नश्च निनादश्च संरम्भश्च यादृशः । अस्य एत स्रजमिव । नदीवेगमिव आगतं अप्रतिबद्धं क्रोधं । |त्कारणमल्पं नभवतीतियोजना ।। १२ । फलितमा साधु निःशेषं त्यज ।। ७ । काल्यं प्रातःकाले । | ह-नासहायमिति । अवष्टब्धसहायश्च परिगृहीत एतेन युद्धं करिष्यसि । तेन फल्गुता लाघवं वा | सहायएव । कुतः । एषः यमाश्रित्यगर्जति तादृशग शत्रुबाहुल्यं शत्रुगौरवं वा न विद्यते । अतः किमर्थ- |जैनहेतुसहायाश्रित एषइत्यर्थः ।। १३ ॥ सहायस्या धादतिरक्तखेसहजप्रभानाशेनोपरक्तादित्योपमेयता । एतदादीन्यासन्नमृत्युलक्षणानि ॥ ३ ॥ रामानु० दीप्तान्निसंनिभोवाली । क्रोधादंष्ट्राकरालः । उत्पतितपदमभिः गजादिभिरुदूतपद्माभः । समृणालोहदइवभातीतियोजना । दंष्ट्रामृणालस्थानीया । ती० दी प्तान्निसंनिभत्वंकालुष्यकषायवर्णप्राकट्याय ॥ ४ ॥ ती० शत्रुबाहुल्यं शत्रोर्बहुल्यं गौरवं वा । नविद्यते शत्रुविषयबलाबलविपय शङ्कातवनास्तीतिभावः । यद्यप्येवंतथापि ॥ ८ ॥ स० तंसुग्रीवं । असहायैनमन्ये । वष्टब्धसहायः परिगृहीतसमानलाभः सन भवतीत्यबष्टब्धसहायः अपरिगृहीतसमानराज्योऽयंसुग्रीवः यमाश्रित्यगर्जति तमपि सुग्रीवन्तं सुग्रीववदाचरन्तं सुग्रीवत्सामाद्यु पायेनाभेयंमन्यइत्यावर्तितेनान्वयः । अहमिहागतंसुग्रीवं असहायंनमन्ये । भवतुसहायःकश्चित्तमप्यहंहनिष्यामीत्यत आह-अव ष्टब्धसहायश्रेति । अवष्टब्धःपरिगृहीतःसहायोयेनसएषः यमाश्रित्यगर्जति तंराममपि असहायं असहायश्शूरंमन्येइतिवा । अमेनतारायारामविषयकंज्ञानमस्तीतिसूचितं । तच्चानुपदंस्पष्टीभविष्यति ॥ १३ ॥ ती० अस्तुसोपिसहाय:सुग्रीवतुल्यएवेत्यत [पा०] १ ड. च. छ. झ. अ. ट. दीप्तान्निलोचन २ ड.-झ. ट. चपदन्यासै ३ क. ख. ड. च, ज. अ. त्राससंभ्रान्ता. ४ क. ङ.-ट, श्रयतामभिधास्यामि. ख. ग. श्रूयतांत्वभि, ५ झ. निवार्यते. ६ ख. निरस्यस्ते. ७ ख निनदस्यच. क. ग. च.-झ. ट. निनादस्यच. ८ घ. ट. माश्रियैव. ९ छ. झ. अ. ट. नापरीक्षितवीर्येण. १० छ. झ अ, ट. सख्यमेष्यति