पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ श्रीमद्वाल्मीकिरामायणम् । ४ [ किष्किन्धाकाण्डम् ४ एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते ॥ मेघसंघातविपुलः पर्यन्तकदलीवृतः ॥ १४ ॥ किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं हि मे । कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया ॥ १५ ॥ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ॥ गच्छन्नेवाचचक्षेऽथ सुग्रीवस्र्तन्महद्वनम् ।। १६ ।। एतद्राघव विस्तीर्णमाश्रमं श्रमनाशनम् ॥ उद्यानवनसंपन्न खादु मूलफलोदकम् ॥ १७ ॥ अत्र सप्तजना नाम मुनयः संशितव्रताः ।। ससैवासन्नधःशीर्षा नियैतं जलशायिनः ॥ १८ ॥ सप्तरात्रकृताहारा वॉयुना वनवासिनः ॥ दिवं वर्षशतैयतिाः सप्तभिः सकलेवराः ।। १९ ।। तेषामेवंप्रभावानां दुमप्राकारसंवृतम् । आश्रमं सुदुराधर्षमपि सेन्दैः सुरासुरैः ॥ २० ॥ पक्षिणो वर्जयन्त्येतत्तथाऽन्ये वनचारिणः । विशन्ति मोहाँद्ये तत्र निर्वर्तन्ते न ते पुनः ॥ २१ ॥ विभूषणरवास्तत्र श्रूयन्ते सकलाक्षराः ॥ तूर्यगीतखेनाश्चात्र गन्धो दिव्यश्च राघव ॥ २२ ॥ त्रेतान्नयोपि दीप्यन्ते धूमो ह्यत्र प्रकाशते । वेष्टयन्निव वृक्षाग्रान्कपोताङ्गारुणो घनः ॥ २३ ।। एते वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः ॥ मेघजालप्रतिच्छन्ना वैडूर्यगिरयो यथा ॥ २४ ॥ कुरु प्रणामं धर्मात्मंस्तान्समुद्दिश्य राघव ॥ लक्ष्मणेन सह भ्रात्रा प्रयतः संयताञ्जलिः ॥ २५ ॥ प्रणमन्ति हि ये तेषां मुनीनां भावितात्मनाम् । न तेषामशुभं किंचिच्छरीरे राम दृश्यते ।॥२६॥ ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः ॥ समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत् ॥ २७ ॥ अभिवाद्य तु धर्मात्मा रामो भ्राता च लक्ष्मणः । सुग्रीवो वानराचैव जग्मुः संहृष्टमानसाः ॥२८॥ लतागुल्मव्यावृत्ति ॥१३॥ मेघ इवेति नीलवर्णे उपमा | तूर्यशब्दोत्र गीतभिन्नवाद्यपरः ।। २२ । त्रेतान्निदी ।। १४- १८ । सप्तरात्रकृताहाराः वायुना सप्तरा- |पने लेिङ्गमाह-धूमो हीति । घनः निबिड : त्रस्य एकवारंकृताहाराः । सप्तभिर्वर्षशतैरित्यन्वयः |।। २३-२४ । समुद्दिश्य किंचित्फलमुद्दिश्य । ॥ १९ ॥ ये मोहाद्त्राश्रमे विशन्ति न ते निवर्तन्ते | तेषां प्रणामं कुरु ॥२५॥ शरीरे अशुभं व्याध्यादिकं किंतु तत्रैव नश्यन्तीत्यर्थः ।। २०-२१ । दिवं |।॥२६॥ महात्मानः महात्मनः ॥२७॥ अभिवाद्येति । गता:शरीरान्तरेण पुनरत्रागत्याप्सरोभिः क्रीडन्ती- | अनेन सर्वेषामभिवादनमनूद्यते । अत्राभिवादनं नम त्याशयेनाह-विभूषणेत्यादिना । भूषणरत्रेण नृत्त- | स्कारः । तेषां परोक्षत्वात् । अनेन सज्जनप्रणामो मुपलक्ष्यते । सकलाक्षराइति गीतस्वनविशेषणं । । विजयावह् इत्यमर्थः सूचितः । तदिदं द्योत्यते उप नुत्कर्षन्तीतिगिरितटोत्कृष्टाः तान् । कर्तरिक्तः ॥ स० गिरितटोत्कृष्टान् गिरितटापेक्षयाउत्कृष्टान् ॥ ॥ ११ ती० गच्छन्नेवेति शतृप्रत्ययेन कार्यत्वरासूचिता ॥ १६ ॥ शि० सप्तजननान्निनिमित्तंबोधयन्नाह-सप्तति । सप्तरात्रेव्यतीतेसतीतिशेषः । वायु नाकृताहाराः । अचलवासिनः निश्चलनिवसनशीलाः ॥ १९ ॥ ति० एतदाश्रमं । अर्धचदिराश्रमशब्दः । स० नपुंसकत्वमार्षे । संबन्धमनुवर्तिष्यते'इतिमहाभाष्यानुसारेण “घञ्जजपाः-' इत्यस्यप्रायिकत्वाद्वानदोषः ॥ २० ॥ शि० वर्जयन्ति अतितेजो दर्शनजनितभियानगच्छन्तीत्यर्थः ॥ २१ ॥ ति० सकलाक्षराः कलाक्षराभिर्मधुराक्षराभिर्वाग्भिःसहिताः । भूषणरवाः अप्स रसामितिशेषः ॥२२॥ ति० तेषामुद्दिश्य तानुद्दिश्येतियावत् ॥२५॥ शि० हेराम भावितात्मनां परिशीलितपरमात्मनां । ऋषी णांयेप्रणमन्ति तेषांशरीरे अशुभं शुभविरोधि शोकादिकमित्यर्थः । नविद्यते नभवति ऋषीणामित्यत्रसंबन्धसामान्यविवक्षयाषष्ठी ॥ २६ ॥ ति० वानराः हनुमदादयः । एतत्कथाप्रश्रादिकं वाल्यायुस्समासिकाललाभाय ॥ ॥ २८ [ पा० ] १ क. ड.-ट मम. ख. ग. महत्. २ क. ग. स्तन्महावनं. ड. च. ज. ज. स्तद्वनंमहत्. ३ क. ड. नियताः ४ छ. झ. ट. वायुनाचलवासिन ५ क. छ. झ. ट. तेषामेतत्प्रभावेण. ६ च. झ ७ झ. ट. ननिवर्तन्ते ८ क. ख. घ. ड. च. ज.-ट. रवाश्चात्र. ९ ड. ज.-ट. खनाश्चापि. घ. खराश्चात्र. १० क. ड. छ.-ट. ह्येषप्रदृश्यते. च ह्यत्रप्रदृश्यते. ख. ह्यद्यप्रकाशते. ११ क. धूमसंरक्तसच्छदाः. १२ क -ड. छ.-ठ. तेषामुद्दिश्य. १३ .-ड. ज. झ. ट तेषामृषीणां. १४ ख. ड. ज. ट. विद्यते. १५ ड. छ.-ट. अभिवाद्यच