पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o g. TrcsTRf ^Frnrf snfa ^^sPTCQf *nr ?r prefer 1 a^w- Jnrqf fwWT ?Tff%, <PT ?f^rf%% il^NHWl fk^Fft ^<?nmt3 ?rf-

ब्राह्मस्फुटसिद्धान्तः अथ गोलाध्यायः व्याख्यायते। तत्र प्रथमं तदारम्भप्रयोजनमाह।

ग्रहनक्षत्रभ्रमणं न समं सर्वत्र भवति भूस्थानाम्। तद्विज्ञानं गोलाद्यतस्ततो गोलमभिधास्ये॥१॥

सु.भा. - भूस्थानां जनानां सर्वत्र ग्रहनक्षत्रभ्रमणं समं न भवति। तद्भ्रमणसंस्थानविज्ञां च यतो गोलादेव भवति ततोsहं गोलमभिधास्ये कथयामीति ॥१॥

वि.भा. - भूगोलनिवासिनां जनानां मद्ये ग्रहाणां नक्षत्राणां च भ्रमणं सर्वत्र समं (एकरूपं) न भवति, तेषां ग्रहनक्षत्राणां भ्रमणवैषम्यस्य विज्ञानं यतो गोलात् (गोलाध्यायात्) भवति, ततोSहं (ब्रह्मगुतः) गोलं (गोलाध्यायं) अभिधास्ये (कथयामि)। प्रायः सर्वेSपि ज्यौतिषसिद्धान्तग्रन्था ग्रहगणितगोलाध्यायाभ्यां विभक्त्ता भवन्ति, तत्र ग्रहगणिते ग्रहसाधनादयो विधयो गोलाध्याये ग्रहसाधनादिविधीनामुपपन्तयश्च वर्णिता भवन्ति, पूर्वं ग्रहसाधनादिविधीनुक्त् वाSधुना तदुपपत्तिं कथयतीति। सिद्धान्तशेखरे "उडुग्रहाणं भ्रमणं न तुल्यं सर्वत्र भूगोलनिवासिनां हि। तत्तत्त्वबोधावगतिस्तु गोलादतः स्फुटं गोलमिहाभिधास्ये" श्रीपतिनाप्याचार्योक्तानुरूपमेव कथ्यत इति ॥१॥

अब गोलाद्याय प्ररम्भ किया जाता है, उसमें पहले आरम्भ करने का प्रयोजन कहते है।

हि.भा. - भूगोल निवासी लोगों के मध्य में ग्रहों का भ्रमण और नक्षत्रों का भ्रमण सब जगह समान (एकरूप) नहीं होता है उनके भ्रमणवैषम्य का ज्ञान गोलाध्याय से होता है इसलिए मैं (ब्रह्मगुप्त) गोलाध्याय को कहता हूं। प्रायः ज्यौतिष के सब सिद्धान्त ग्रन्थ ग्रहगणित और गोलाद्याय से विभक्त होते हैं। ग्रहगणित में ग्रहसाधनादि विधियों का वर्णन् रहता है और गोलाध्याय में उनकी उपपत्तियों का वर्णन् रहता है। पूर्व में ग्रहसाधनादि विधियों को कह कर अब उनकी उपपत्ति कहते हैं इति ॥१॥