पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजभाष्ययुक्ता [३.१२. ४.१. उत्पत्तिमायतिं स्थानं विमुत्त्वं चैव पञ्चधा ! अध्यात्मञ्चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति ॥ १२ ॥ इति तृतीयः प्रश्रः उत्पत्तिमायतिमिति । उत्पत्ति प्राणस्य परमात्मन उत्पत्तिं, मनसा सहाग- मनं, अस्मिन् शरीरे पायूपस्थादिस्थानेषु स्थिति, “यथा सम्राडेवाधिकृता" नियुक्तं स्वास्यलक्षणं विभुत्वे, अध्यात्मं प्राणादिरूपेण पञ्चधा स्थितिं, चशब्दसमुच्चितमादि- त्यादिरूपेण पञ्चधा बाह्यमवस्थानश्च विज्ञाय अमृतमश्नुने मोक्षं प्राप्नोति । विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति द्विवचनं प्रतिवचनसमाप्तिद्योतनार्थम् ।। १२ ।। इति प्रश्नोपनिषद्भाष्ये तृतीयः प्रश्नः अभ्यात्ममिति । आत्मनि शरीरे स्थितिं च पञ्चधा विज्ञायेत्यन्वयः । प्राणादिरूपेणेति । एतेन कथमध्यात्ममिति षष्ठप्रश्नस्य चरमस्य कुतः समाधान नोक्तमिति शङ्कयापरिहारः सूचितः । आत्मानं वा प्रविभज्येति तृतीयप्रश्नसमाधानेनैवास्यापि समाधानमुक्तं भवतीति । नन्वेवं सत्ति पृथक् प्रश्न एवायं न प्रष्टव्यः । ज्ञातव्यांशाभात्वादिति चेत् सत्यम् । तथापि 'कथं बाह्यममिधत्ते' इत्येतावन्मात्र प्रश्ने तस्य पूर्णता न भत्रेत् | कयं बाह्यमात्रं प्रति प्रश्नः। तत्प्रतिसम्बन्धि आन्तरं प्रत्यपि हि प्रश्नः कार्य इति जिज्ञासा जायेत । अतो निराकांक्षतया पूर्णत्वाय कथमध्यात्म- मिति प्रश्नस्य अस्ति आवश्यकता | तथापि तृतीयप्रश्नोतरेणैव अस्यापि प्रश्नस्य उत्तरं दत्तं भवतीति प्रष्टुरप्याशयात् तदभिज्ञे आचार्येण तस्य पृथगुत्तरं न दीयत इति न काचिदनुपपत्तिरिति । इति तृतीयप्रश्नटिप्पणी अथ चतुर्थः प्रश्नः हरिः ओम् ॥ अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ । भगवन्ने- तस्मिन् पुरुषे कानि स्वपन्ति कान्यस्मिन् जाग्रति कतर एष देवः सेवप्नान् पश्यति कस्यैतत्सुखं भवति । कस्मिंन्नु सर्वे संप्रतिष्ठिता भवन्तीति ॥१॥ अथ हैन सौर्यायणीति । स्पष्टोऽर्थः । पुरुष; सुप्ते सतीति शेषः । शिष्टं स्पष्टम् । कान्यस्मिन् जाग्रति । अत्रापि सुप्ते सतीति शेषः । (कतर इति ।) एषः द्योतनादिगुणयोगाद्देवः जीवः कतरः कीदृशः सन् स्वाप्नान् 1.पा. . 'भवति' नास्ति । 2. आ. ना. स्वप्रान् ।