भ्रम-भअवंतसारदाणंदसंदिट्टमग्गेण देविं लच्छिं जदि आरहेसि किं दुल्लहो सो दयिदो ।
(भगवच्छारदानन्दसन्दिष्टमार्गेण देवीं लक्ष्मीं यद्याराधयसि किं दुर्लभस्स दयितः) ।
भास्क-सखे ! मनोरथो मे पल्लवित इव । यतोऽस्मद्गुरोशारदानन्दस्य प्रसादपात्रमेषापि । किञ्च दर्शनप्रभृति सुदत्याः स्फुरति मे वामेतरलोचनम् । अपि च ।
- साधारणीह गमने चरतां विमार्गे
- सद्योङ्गना शशिमुखी सुपयोधराभा ।
- सद्योङ्गना शशिमुखी सुपयोधराभा ।
- ताराबलाविलसिता पुरतो ममासी-
- त्स्वीयात्पदान्मयि विनिस्सरति प्रयातुम्[१] ।
- साधारणीह गमने चरतां विमार्गे
पद्मि-हला ! पाओ जीमूदो मं (हला ! पापो जीमूतो माम्-) (इत्यर्धोक्ते मूर्च्छति) ।
भ्रम-हला ! समस्ससिहि । (समाश्वसिहि) ।
भास्क- मूर्च्छानिमीलिताक्षी स्तब्धाङ्गी वाचि मुद्रिता सुदती ।
- मुकुलितपद्मा भ्रमरारवरहितेवाब्जिनी निबातस्था ॥
(पद्मिनीं निषिञ्चति हिमवारिणा भ्रमरिकरः)
पद्मि-(आश्वस्य) हला ! किं जीवेसि मं मन्दभाइणिं जीविदणिरासं ? ।
(किं जीवयसि मां मन्दभागिनीं जीवितनिराशाम् ?) ।
भ्रम-सहि ! तुमं विणा कहं मह जीवणम् ? (सखि ! त्वां विना कथं मम जीवनम् ?) ।
पद्मि-केवलं अत्तणो सुहं अहिलसन्तो मं पीडेसि ! । (केवलमात्मनस्सुखमभिलषन्ती मां पीडयसि !)
भास्क-सखे ! अतिक्रामति सुभ्रुवो विरहसन्तापः । तथाहि,
- सख्या तापनिवारणाय करयोरग्रे मृणालीलता
- विन्यस्ता वलयीकृता हरिमणीक्लृप्तेव संदृश्यते ।
- विन्यस्ता वलयीकृता हरिमणीक्लृप्तेव संदृश्यते ।
- शय्याऽम्भोजदलैः कृताऽऽतपभरम्लानेव सञ्जायते
- धूमो देहनिषेचनप्रसृमरप्रालेयतोयादपि ॥
- धूमो देहनिषेचनप्रसृमरप्रालेयतोयादपि ॥
- सख्या तापनिवारणाय करयोरग्रे मृणालीलता